Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, १८ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्ग-महाकाल-मन्दिरे दान-प्रक्रियाम् अधिकां पारदर्शिनीं विश्वसनीयां च कर्तुं महत्त्वपूर्णः निर्णयः कृतः। अधुना मन्दिरे दानरूपेण प्राप्तानां बहुमूल्य-आभरणानां शुद्धता-परीक्षणार्थम् अत्याधुनिकं कैरेट-मीटर-यन्त्रम् ‘एक्स-आर-एफ’ इत्यस्य उपयोगः भविष्यति।
महाकाल-मन्दिरस्य उपप्रशासिका उपजनपदाधिकारिणी च सिम्मी-यादव: शनिवासरे अवदत् यत् मन्दिर-प्रबन्ध-समित्या सीएसआर-निधेः माध्यमेन प्रायः पञ्चदश-लक्ष-रूप्यक-व्ययेन एतत् अत्याधुनिकं कैरेट-मीटर-यन्त्रं महाराष्ट्रतः आनीतम्। यन्त्रम् अधुना मन्दिर-परिसरं प्राप्तम् अस्ति तथा आवश्यक-व्यवस्थानां सम्पन्नतायां सोमवासरात् अस्य सञ्चालनम् आरभ्यते।
तया उक्तं यत् मन्दिरे दानरूपेण प्राप्तानां सुवर्ण-रजत-आभरणानां शुद्धता कैरेट-मीटर-यन्त्रेण परीक्ष्यते। दानदातुः उपस्थितावेव धातोः शुद्धता परीक्षिता भविष्यति, येन दान-प्रक्रिया पूर्णतया पारदर्शिनी भविष्यति। अनेन यन्त्रेण दानरूपेण प्राप्तस्य सुवर्णस्य रजतस्य च गुणस्तरः कैरेट-परिमाणं च केवलं कतिपयेषु निमेषेषु ज्ञातुं शक्यते। तया अपि उक्तं यत् एतेन उपक्रमेण महाकाल-मन्दिरं देशस्य तेषु विरल-मन्दिरेषु समावेशं प्राप्स्यति, यत्र दानरूपेण प्राप्तानां बहुमूल्य-आभरणानां परीक्षणार्थम् आधुनिक-प्रौद्योगिक्याः उपयोगः क्रियते।
अद्यावधि महाकाल-मन्दिरे दानरूपेण प्राप्तानि सुवर्ण-रजत-वस्तूनि ‘सुवर्णसदृशम्’, ‘रजतसदृशम्’ इति लिखित्वा कोष्ठागारे निक्षिप्यन्ते स्म। अनन्तरं सुवर्णकारेण तेषां परीक्षणं क्रियते स्म। बहुशः बहुमूल्य-धातव: अशुद्धा: अथवा न्यून-शुद्धतायुक्ता: इति ज्ञायन्ते स्म। दीर्घकालस्य अनन्तरं समितिः दानदातारम् एतद्विषये सूचितुमपि न शक्नोति स्म। अतः प्रक्रियायाः अपारदर्शितया अविश्वासोऽपि जायते स्म।
अधुना नूतन-यन्त्रस्य स्थापनानन्तरम् एषा प्रक्रिया अधिका सूक्ष्मा प्रामाणिकी च भविष्यति। देशस्य अनेक-प्रमुख-मन्दिरेषु दानस्य नाम्ना कृत्रिमानि अथवा न्यून-शुद्धतायुक्तानि सुवर्ण-रजत-आभरणानि प्राप्तानि इति घटनाः दृष्ट्वा मन्दिर-समित्या एषः निर्णयः स्वीकृतः। समितेः मतम् अस्ति यत् कैरेट-मीटर-यन्त्रेण परीक्षणेन दानदातॄणां विश्वासः अधिकः दृढः भविष्यति तथा दान-स्वीकार-प्रक्रियापि पारदर्शिनी प्रामाणिकी च भविष्यति।
समित्या उक्तं यत् एतत् यन्त्रं चतुर्विंशतिहोरा: वातानुकूलित-कक्षे स्थापनीयम् अस्ति। अतः कोष्ठागारे लघु-कक्षस्य निर्माणं क्रियते। कैरेट-मीटर-यन्त्रम् एक्स-रे-किरणानाम् उपयोगं करोति। एते किरणाः धातौ पतन्ति चेत् धातोः परमाणवः उत्तेजिताः भूत्वा ऊर्जां विसृजन्ति, येन यन्त्रं केवलं कतिपय-निमेषेषु सुवर्णस्य रजतस्य च वास्तविकीं शुद्धतां निर्धारयति। धातोः परीक्षणं अधिकतमं त्रिंशत्-निमेषेषु सम्पन्नं भवति तथा परीक्षण-समये आभरणस्य किमपि क्षतिः न भवति।
Hindusthan Samachar / Divya Ranjan