Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 जुलाईमासः (हि.स.)। स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य अधीनस्थेन राष्ट्रियस्वास्थ्यप्राधिकरणेन आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजना तथा आयुष्मानभारतडिजिटलमिशन विषययोः आयोजितस्य द्विदिवसीयराष्ट्रियसमीक्षोपवेशनस्य चिन्तनशिविरस्य समापनं कृतम्। जुलैमासस्य १७ तथा १८ दिनाङ्कयोः मध्यप्रदेशभवने आयोजिते अस्मिन् उपवेशने केन्द्रसर्वकारः राज्यसर्वकाराश्च स्वास्थ्यसुधाराणां परवर्तीचरणस्य रूपरेखाविषये विस्तृतमन्थनम् अकुर्वन्।
उपवेशने स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य राष्ट्रियस्वास्थ्यप्राधिकरणस्य राज्यस्वास्थ्यसंस्थानां विकाससहभागिनां अन्येषां हितधारकाणां च प्रतिनिधिभिः योजनयोः प्रगतिसमीक्षा कृता। राज्यैः स्वस्वसफलप्रारूपाणि प्रस्तुतानि तथा डिजिटलस्वास्थ्यसेवानां अधिकप्रभावकारित्वाय विचारविमर्शः कृतः।
समापनसत्रं सम्बोधयन्ती केन्द्रीयस्वास्थ्यसचिवा पुण्यसलिलाश्रीवास्तवा अवदत् यत् आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजना तथा आयुष्मानभारतडिजिटलमिशन अधुना भारतस्य स्वास्थ्यव्यवस्थायाः प्रमुखस्तम्भौ जातौ स्तः। अधुना एतयोः योजनयोः व्यापकप्रयोगे प्रभाविक्रियान्वयने च विशेषध्यानस्य आवश्यकता वर्तते। तया डिजिटलस्वास्थ्यसेवानां विस्तारस्य सहैव दत्तांशगोपनीयता साइबरसुरक्षा स्वास्थ्यसम्बद्धदत्तांशस्य उत्तरदायिपूर्णप्रयोगश्च विशेषतया प्रतिपादितः।
उपवेशने आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजना तथा आयुष्मानभारतडिजिटलमिशन योजनयोः उत्कृष्टक्रियान्वयनार्थं पञ्चदश पुरस्काराः अपि प्रदत्ताः। आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनायाः अन्तर्गतं आन्ध्रप्रदेशः सिक्किमः लक्षद्वीपश्च सर्वाधिकसंख्यायां वीवीएसपत्रप्रदानाय सम्मानिताः। मध्यप्रदेशः मेघालयः अण्डमाननिकोबारद्वीपसमूहश्च जैवमितीयप्रमाणीकरणसहितसर्वाधिकपूर्वानुमोदनार्थं पुरस्कृताः। आयुष्मानभारतडिजिटलमिशनस्य अन्तर्गतं अण्डमाननिकोबारद्वीपसमूहः चण्डीगढः दादरानगरहवेली दमनदीव लद्दाखः लक्षद्वीपश्च डिजिटलमिशनपञ्जिकायाम् उत्कृष्टप्रदर्शनार्थं सम्मानिताः। जम्मूकाश्मीरः लद्दाखश्च प्रतिलक्षजनसंख्यायां सर्वाधिकस्वास्थ्यअभिलेखसम्बन्धनार्थं सम्मानितौ। उत्तरप्रदेशः आभापरिचयनिर्माणे स्कैनपेसेवायाः उत्कृष्टक्रियान्वयनार्थं सम्मानम् अलभत।
उपवेशने आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनायाः वित्तीयस्थैर्यं सार्वजनिकचिकित्सालयानां सुदृढीकरणम् स्वास्थ्यविश्लेषणम् कृत्रिमबुद्धिमत्ता डिजिटलस्वास्थ्याधारसंरचनायाः विस्तारश्च विषये विस्तृतविमर्शः अभवत्। केरलराज्येन राज्यस्य स्वास्थ्ययोजनानाम् आयुष्मानभारतप्रधानमन्त्रीजनआरोग्ययोजनया सह एकीकरणस्य प्रारूपं प्रस्तुतम्। तमिळनाडुराज्येन तु दावाराशेः उपयोगेन सार्वजनिकचिकित्सालयानां आधारसंरचनायाः सेवासु च सुदृढीकरणस्य अनुभवाः साझीकृताः।
राष्ट्रियस्वास्थ्यप्राधिकरणेन कृत्रिमबुद्धिमत्ताआधारितविश्लेषणात्मकसाधनानां प्रदर्शनमपि कृतम्। एतैः साधनैः स्वास्थ्यसेवानां प्राप्तिः चिकित्सालयानां कार्यक्षमता लाभार्थिनां उपयोगश्च अधिकसम्यग्रूपेण मूल्याङ्कयितुं शक्यते। सहैव राष्ट्रियस्वास्थ्यदावाविनिमयव्यवस्थायाः माध्यमेन चिकित्सालयदावानां शीघ्रनिस्तारणं वित्तीयदक्षतायाः वर्धनं च विषये अपि चर्चा अभवत्।
राष्ट्रियचिकित्साआयोगेन चिकित्सामहाविद्यालयेषु आयुष्मानभारतडिजिटलमिशनस्य एकीकरणम् आभाआधारितडिजिटलस्वास्थ्यअभिलेखानां चिकित्सालयप्रबन्धनसूचनाप्रणाल्याः विस्तारस्य च सूचना प्रदत्ता। सर्वमएआई संस्थया स्वास्थ्यसेवासु कृत्रिमबुद्धिमत्ताआधारितसमाधानानि अपि प्रस्तुतानि। एतैः चिकित्सकीयनिर्णयाः स्वास्थ्ययोजनानिर्माणं सेवा वितरणं च अधिकप्रभावकारिरूपेण कर्तुं शक्यते।
--------------------
Hindusthan Samachar / Dheeraj Maithani