नोएडानगरे अत्याधुनिकम् ‘आदर्श-परीक्षा-केन्द्रम्’ प्रारब्धम्, निष्पक्ष-सुरक्षित-परीक्षा-व्यवस्थायाः उपरि विशेषं बलम्
नवदेहली, १८ जुलाईमासः (हि.स.)। परीक्षा-प्रौद्योगिकी-सुरक्षा-समाधान-प्रदायिनी इनोवेटिव्यू-इण्डिया-लिमिटेड्-निर्माणी शनिवासरे नोएडानगरस्य सेक्टर-८० इत्यत्र अत्याधुनिकस्य आदर्श-परीक्षा-केन्द्रस्य उद्घाटनम् अकरोत्। निर्माण्याः उद्देश्यं देशव्यापि तादृश
आदर्श परीक्षा केंद्र के बारे में जानकारी देते हुए अधिकारी।


नवदेहली, १८ जुलाईमासः (हि.स.)। परीक्षा-प्रौद्योगिकी-सुरक्षा-समाधान-प्रदायिनी इनोवेटिव्यू-इण्डिया-लिमिटेड्-निर्माणी शनिवासरे नोएडानगरस्य सेक्टर-८० इत्यत्र अत्याधुनिकस्य आदर्श-परीक्षा-केन्द्रस्य उद्घाटनम् अकरोत्। निर्माण्याः उद्देश्यं देशव्यापि तादृशीं मानकीकृत-परीक्षा-अवसंरचनां विकसितुं वर्तते, यत्र प्रत्येकं परीक्षार्थिने समानं, सुरक्षितं, पारदर्शी च परीक्षा-वातावरणं प्रदीयेत।

निर्माण्याः अधिकारिणः अवदन् यत् आदर्श-परीक्षा-केन्द्रं स्वयम् कस्यापि परीक्षायाः आयोजनं न करोति, अपितु विभिन्न-परीक्षा-संस्थाभ्यः सुरक्षितां प्रौद्योगिकी-आधारितां परीक्षा-अवसंरचनां प्रददाति। परीक्षा-आयोजक-संस्थाः स्वकीयैः सर्वर-यन्त्रैः तकनीकी-दलेन च सह आगच्छन्ति, केन्द्रस्य पक्षतः तु आवश्यक-नेटवर्क-केबल-व्यवस्था अन्याश्च तकनीकी-सुविधाः प्रदीयन्ते।

तेषाम् अनुसारं देशे आयोजिताः परीक्षाः व्यापकतया द्विधा विभज्यन्ते। प्रथम-श्रेण्यां दशम-कक्षायाः, द्वादश-कक्षायाश्च मण्डल-परीक्षाः समाविशन्ति, द्वितीय-श्रेण्यां तु आईआईटी-जेईई, नीट्, सीयूईटी इत्यादयः उच्चस्तरीय-प्रतियोगिता-परीक्षाः अन्तर्भवन्ति। एतासां सर्वासां परीक्षाणां कृते सुरक्षितानि, एकरूपाणि, मानकीकृतानि परीक्षा-केन्द्राणि निर्मातुमेव निर्माण्याः लक्ष्यं वर्तते।

निर्माण्याः अनुसारं परीक्षा-केन्द्रं पूर्णतया प्रौद्योगिकी-आधारितया एकीकृत-सुरक्षा-प्रणाल्या सुसज्जितम् अस्ति। सम्पूर्णे परिसरस्य अन्तः कुत्रापि उद्घाटिता तार-व्यवस्था नास्ति। प्रत्येकेषां २५०–५०० सङ्गणक-यन्त्राणां कृते पृथक् सर्वर-व्यवस्था कृता अस्ति, येन परीक्षा-सञ्चालनं सुरक्षितं निर्बाधं च भवति।

अधिकारिणः अवदन् यत् अधुना एतादृशानि परीक्षा-केन्द्राणि देहली-एनसीआर-प्रदेशे, बिहारे, छत्तीसगढे च सञ्चालितानि सन्ति। भविष्य-योजनानुसारं प्रायः प्रत्येकं १०० किलोमीटर-दूरे एकम् आदर्श-परीक्षा-केन्द्रं स्थापयितुं लक्ष्यं निर्धारितम् अस्ति, येन अधिकाधिकाः परीक्षार्थिनः स्वसमीपे एव मानकीकृत-परीक्षा-केन्द्रस्य सुविधां प्राप्नुयुः।

Hindusthan Samachar / Divya Ranjan