Enter your Email Address to subscribe to our newsletters

नवदेहली, १८ जुलाईमासः (हि.स.)। देशे प्रथमवारं निजी-निर्माणी स्काईरूट-एयरोस्पेस अद्य स्वदेशीय-उपग्रहस्य प्रक्षेपणं करिष्यति। अस्मिन् विषये प्रधानमन्त्री नरेन्द्रमोदी हर्षं प्रकटितवान्। सः एक्स इति सामाजिक-माध्यमे अलिखत्— सफल-प्रक्षेपणार्थं स्काईरूट-एयरोस्पेस-निर्माण्याः सम्पूर्ण-दलाय मम हार्दिकाः शुभकामनाः। विक्रम-१ उच्चतमाः सिद्धयः प्राप्नुयात्, इतिहासं रचयतु, नवोन्मेषकानां नूतनं वंशं च प्रेरयतु।
प्रधानमन्त्री पुनः अलिखत्— अद्य प्रातः ११:३० वादने स्काईरूट-एयरोस्पेस भारतस्य प्रथमस्य निजीरूपेण विकसितस्य प्रक्षेपण-यानस्य ‘विक्रम-१’ इत्यस्य प्रथमम् ऑर्बिटल-प्रक्षेपणं करिष्यति। एतत् चतुः-चरणात्मकं रॉकेट अस्ति, यत् शीघ्रं आवश्यकतानुसारं च प्रक्षेपण-सेवानां प्रदाने विनिर्मितम्। एतत् अभियानम् अस्माकं यूनां प्रतिभां, दृढसङ्कल्पं, उद्यमशीलतां च प्रतिपादयति। अयं च दर्शयति यत् अन्तरिक्ष-क्षेत्रे कृताः सुधाराः नवोन्मेषाय उद्यमाय च नूतनान् अवसरान् उद्घाटयन्ति।
तेन उक्तम्— अहं सर्वान् भारतीयान्, विशेषतः मम युवा-मित्राणि, प्रार्थये यत् ते एतत् ऐतिहासिकम् अभियानं पश्यन्तु तथा इति हॅशटैगस्य उपयोगं कृत्वा स्काईरूट-दलस्य सफलतार्थं शुभकामनाः प्रेषयन्तु।
उल्लेखनीयम् अस्ति यत् स्काईरूट-एयरोस्पेस हैदराबादनगरस्थिती निजी-निर्माणी अस्ति। निर्माण्या अस्य अभियानस्य नाम ‘मिशन-आगमन-विक्रम-१’ इति स्थापितम्। अस्य प्रक्षेपणम् अद्य प्रातः ११:३० वादने श्रीहरिकोटास्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् करिष्यते।
Hindusthan Samachar / Divya Ranjan