Enter your Email Address to subscribe to our newsletters

बक्सरम्, 18 जुलाईमासः (हि.स.)।
इस्कॉनमन्दिरस्य पडरी बक्सर इत्यस्य तत्त्वावधाने आयोजितः श्रीजगन्नाथरथयात्रामहोत्सवः श्रद्धया भक्त्या आध्यात्मिकोल्लासेन च सम्पन्नः। भगवानः श्रीजगन्नाथः, बलभद्रः, माता सुभद्रा च इत्येषां भव्यरथस्य दर्शनार्थं पूजार्चनार्थं च सहस्रशः श्रद्धालवः समागताः। हरिनामसङ्कीर्तनैः, भजनकीर्तनैः, जयजगन्नाथ इति जयघोषैः च सम्पूर्णं नगरं भक्तिमयेन वातावरणेन व्याप्तम् आसीत्।
महोत्सवस्य शुभारम्भः गङ्गापुत्रेण श्रीत्रिदण्डिस्वामिमहाराजेन बक्सरस्य सांसदेन सुधाकरसिंहेन च दीपप्रज्वालनपूर्वकं कृतः। ततः परं भगवानः महाआरार्तिकं सम्पन्नम्।
स्वीयसम्बोधने श्रीत्रिदण्डिस्वामिमहाराजः उक्तवान् यत् श्रीजगन्नाथरथयात्रा केवलं धार्मिककार्यक्रमः नास्ति, अपितु प्रेम्णः, सेवायाः, समरसतायाः, विश्वबन्धुत्वस्य च सन्देशं प्रसारयन्ती महोत्सवपरम्परा अस्ति, या समाजाय एकतायाः मानवतायाश्च प्रेरणां ददाति।
कार्यक्रमे इस्कॉनक्षेत्रप्रमुखः कृष्णकृपादासः, मन्दिरप्रबन्धकः राजगोविन्ददासः, स्वामी कन्हाईदासः, भारतीयजनतापक्षस्य जिलाध्यक्षः भुवनसिंहः, राष्ट्रियजनतादलस्य जिलाध्यक्षः शेषनाथसिंहयादवः, चैम्बर आफ कामर्स इत्यस्य जिलाध्यक्षः सत्यदेवजी तथा सामाजिकधार्मिकराजनीतिकक्षेत्राणां बहवः गण्यमान्यजनाः उपस्थिताः आसन्।
आयोजनसंयोजकः डा. रमेशकुमारः सर्वान् अतिथीन् स्वागतं कृत्वा उक्तवान् यत् रथयात्रा भारतीयसंस्कृतेः, आध्यात्मिकचेतनायाः, सामाजिकसौहार्दस्य च जीवन्तं प्रतीकम् अस्ति।
रथयात्रा नगरस्य प्रमुखमार्गैः गता, यत्र श्रद्धालुभिः पुष्पवृष्ट्या भगवानः स्वागतं कृतम्। मार्गे विविधस्थानेषु श्रद्धालूनां कृते प्रसादवितरणम्, शीतलपेयप्रदानम्, सेवाशिविराणि च आयोजितानि।
गोयलधर्मशालायां महाप्रसादवितरणेन सह महोत्सवस्य समापनम् अभवत्। सम्पूर्णे आयोजने अनुशासनस्य, भक्तेः, जनसहभागितायाश्च अद्भुतः समन्वयः दृष्टिगोचरः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani