दिव्यांगतां प्रति प्रतिभायाः जयः -धमतर्याः सत्यांशु दीपः स्पेशल ओलंपिक्स गोथिया कप-2026 मध्ये दापितवान् भारताय कांस्य पदकम्
अंताराष्ट्रिय मंचे चमकृतः धमतर्याः तारकः,जिल्लाधिकारी अबिनाश मिश्रा अददाद्वर्धापनानि धमतरी, 18 जुलाईमासः (हि.स.)। धमतरीजनपदस्य कृते गौरवस्य हर्षस्य च सः अविस्मरणीयः क्षणः अभवत्, यदा समाजकल्याणविभागेन अनुदानितस्य सार्थकविद्यालयस्य विशेषक्रीडकः
भारतीय स्पेशल ओलंपिक्स फुटबॉल टीम के साथ सार्थक स्कूल के विशेष खिलाड़ी सत्यांशु दीप।


भारतीय स्पेशल ओल  सार्थक स्कूल के विशेष खिलाड़ी सत्यांशु दीप।


अंताराष्ट्रिय मंचे चमकृतः धमतर्याः तारकः,जिल्लाधिकारी अबिनाश मिश्रा अददाद्वर्धापनानि

धमतरी, 18 जुलाईमासः (हि.स.)।

धमतरीजनपदस्य कृते गौरवस्य हर्षस्य च सः अविस्मरणीयः क्षणः अभवत्, यदा समाजकल्याणविभागेन अनुदानितस्य सार्थकविद्यालयस्य विशेषक्रीडकः सत्यांशुदीपः स्वीडनदेशे आयोजिते स्पेशल ओलम्पिक्स गोथियाकप २०२६ प्रतियोगितायां भारतीयविशेषओलम्पिक्स पादकन्दुकदलस्य प्रतिनिधित्वं कुर्वन् कांस्यपदकं विजित्य जनपदस्य प्रदेशस्य राष्ट्रस्य च नाम अन्ताराष्ट्रियस्तरे उज्ज्वलीकृतवान्।

स्वीडनदेशस्य गोथेनबर्गनगरे आयोजितायां प्रतियोगितायां स्पेशल ओलम्पिक्स ट्रॉफीवर्गे भारतीयदलेन उत्कृष्टं प्रदर्शनं कृतम्। तृतीयस्थानस्य स्पर्धायां भारतीयदलेन फिनलैण्डदेशीयं दलं द्वे एकं च इति गोलपरिणामेन पराजित्य कांस्यपदकं स्वनाम्नि कृतम्। अस्याम् ऐतिहासिकायाम् उपलब्धौ सत्यांशुदीपस्य महत्त्वपूर्णा भूमिका आसीत्।

अस्याः उपलब्धेः उपलक्ष्ये समाहर्ता अभिनाशमिश्रः अद्य शनिवासरे सत्यांशुदीपं अभिनन्दन् उक्तवान् यत् विशेषक्रीडकस्य अन्तरराष्ट्रीयमञ्चे राष्ट्रस्य प्रतिनिधित्वं सम्पूर्णजनपदस्य कृते गौरवस्य प्रेरणायाश्च विषयः अस्ति। तेन उक्तं यत् सत्यांशुदीपः स्वप्रतिभया अनुशासनेन कठिनपरिश्रमेण दृढसंकल्पेन च एतत् स्थानं प्राप्तवान्। तस्य सफलता एतत् सन्देशं ददाति यत् समुचितमार्गदर्शनेन निरन्तरप्रयत्नेन च विशेषबालकाः अपि विश्वमञ्चे उत्कृष्टं प्रदर्शनं कर्तुं समर्थाः भवन्ति।

समाहर्ता उक्तवान् यत् शासनं विशेषावश्यकतायुक्तबालकानां प्रतिभानां संवर्धनार्थं निरन्तरं प्रयतते। एतादृशानां क्रीडकानाम् उपलब्धयः समाजे सकारात्मकचिन्तनस्य संवर्धनं कुर्वन्ति, समावेशिविकासस्य भावनाम् अपि सुदृढां कुर्वन्ति। तेन विश्वासः व्यक्तीकृतः यत् सत्यांशुदीपः भविष्ये अपि राष्ट्रियान्ताराष्ट्रियप्रतियोगितासु धमतरीजनपदस्य छत्तीसगढप्रदेशस्य भारतस्य च गौरवं वर्धयिष्यति। समाहर्ता अस्याः सफलतायाः निमित्तं सत्यांशुदीपं तस्य मातापितरौ परिवारजनान् प्रशिक्षकान् सार्थकविद्यालयं स्पेशल ओलम्पिक्स भारत छत्तीसगढ संस्थां भारतीयविशेषओलम्पिक्स पादकन्दुकदलं च शुभाशंसाः प्रदत्तवान् तथा उक्तवान् यत् एषा उपलब्धिः जनपदस्य अन्येषां क्रीडकानां दिव्याङ्गबालकानां च कृते नूतनां प्रेरणां भविष्यति।

समाजकल्याणविभागस्य उपसञ्चालिका डा मनीषापाण्डे अपि सत्यांशुदीपं अभिनन्दन्ती उक्तवती यत् तस्य सफलता जनपदस्य प्रदेशस्य च विशेषबालकानां कृते प्रेरणादायिनी अस्ति। तया अस्याः उपलब्धेः श्रेयः स्पेशल ओलम्पिक्स भारत छत्तीसगढ संस्थायाः मार्गदर्शनाय सार्थकविद्यालयस्य नियमितप्रशिक्षणाय प्रशिक्षकाणां परिश्रमाय परिवारस्य सहयोगाय च दत्तम्।

पूर्वम् अपि राष्ट्रियपदकौ विजितवान्

सत्यांशुदीपः अस्मात् पूर्वं हरियाणाराज्यस्य रोहतकनगरे आयोजितायां राष्ट्रियक्रीडाप्रतियोगितायां देशस्य त्रयोविंशतिराज्येभ्यः आगतैः पञ्चशताधिकैः क्रीडकैः सह स्पर्धायां दीर्घलङ्घने स्वर्णपदकं शतमित्रीधावने च कांस्यपदकं विजितवान्। तस्य उत्कृष्टप्रदर्शनस्य आधारेण भारतीयविशेषओलम्पिक्स पादकन्दुकदले चयनम् अभवत्। अधुना सः स्वीडनदेशे कांस्यपदकं विजित्य धमतरीजनपदाय अन्ताराष्ट्रियपरिचयं प्राप्तवान्।

Hindusthan Samachar / Dheeraj Maithani