काश्यां 'प्रिय-केलकर-जी' कार्यक्रमः, अखिलभारतीय-विद्यार्थीपरिषद् वर्तमान-पूर्वकार्यकर्तारः सम्मिलिष्यन्ति
वाराणसीनगरम्, १८ जुलाईमासः (हि.स.)। अखिलभारतीय-विद्यार्थी-परिषदः काशी-प्रान्त-विभागद्वारा महात्मा-गान्धी-काशी-विद्यापीठस्य गान्धी-अध्ययन-पीठ-सभागारे आगामि २० जुलाईमासे, सोमवासरे, अपराह्णे एकवादनात् यशवन्तराव-केलकरस्य जन्म-शताब्दी-वर्षस्य निमित्तम्
यशवंत राव केलकर


वाराणसीनगरम्, १८ जुलाईमासः (हि.स.)। अखिलभारतीय-विद्यार्थी-परिषदः काशी-प्रान्त-विभागद्वारा महात्मा-गान्धी-काशी-विद्यापीठस्य गान्धी-अध्ययन-पीठ-सभागारे आगामि २० जुलाईमासे, सोमवासरे, अपराह्णे एकवादनात् यशवन्तराव-केलकरस्य जन्म-शताब्दी-वर्षस्य निमित्तम् ‘प्रिय-केलकर-जी’ इति विषयाधारित-अभिवाचन-कार्यक्रमः तथा विद्यार्थी-परिषदः पूर्वकार्यकर्तॄणां स्नेह-मेलापकस्य आयोजनं क्रियते। एतद्विषये काशी-प्रान्तस्य मन्त्री शिवम-सिंहः अवदत्।

अखिलभारतीय-विद्यार्थी-परिषदः प्रान्त-मन्त्री शिवम-सिंहः शनिवासरे अवदत् यत् ‘प्रिय-केलकर-जी’ कार्यक्रमे उत्तरप्रदेश-सर्वकारस्य उच्च-शिक्षा-मन्त्री योगेन्द्र-उपाध्यायः मुख्यातिथित्वेन उपस्थितः भविष्यति। मुख्यवक्तृत्वरूपेण अखिल-भारतीय-विद्यार्थी-परिषदः राष्ट्रियाध्यक्षः प्रोफेसर-रघुराज-किशोर-तिवारी उपस्थितः भविष्यति। अस्य आयोजनस्य अध्यक्षतां महात्मा-गान्धी-काशी-विद्या-पीठस्य कुलपतिः प्रोफेसर-आनन्द-कुमार-त्यागी करिष्यति।

तेन उक्तं यत् अभाविपस्य प्रेरणास्रोतः, राष्ट्र-चिन्तकः, महान् शिक्षाविद् यशवन्तराव-केलकरः इत्यस्य जन्म-शताब्दी-वर्षम् अधुना प्रचलति, यस्य निमित्तं देशस्य विविध-स्थानेषु विविध-कार्यक्रमाः आयोज्यन्ते। काश्यां दीर्घकालं कार्यं कृतवन्तः पूर्वकार्यकर्तारः अस्मिन् कार्यक्रमे उपस्थिताः भविष्यन्ति, येन वर्तमान-कार्यकर्तृभ्यः नूतना प्रेरणा प्राप्स्यते। नवीन-कार्यकर्तॄणां पूर्वकार्य-कर्तॄणां च संयुक्तस्य आयोजनस्य नाम ‘स्नेह-मेलापकः’ इति निर्धारितम्। अस्मिन् अवसरे क्षेत्रीय-सङ्घटन-मन्त्री घनश्याम-शाही, प्रान्त-सङ्घटन-मन्त्री आकाशः, प्रान्ताध्यक्षः डाॅ. महेन्द्र-त्रिपाठी, तथा प्रान्त-विभाग-विश्वविद्यालय-विभागानां पदाधिकारीणः अपि उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan