अधुना उत्तर प्रदेशो रुग्णो न, प्रगतौ देशस्य प्रथमेषु त्रिषु एकं राज्यम् : योगी आदित्यनाथः
बुलंदशहरम्, 18 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे बुलन्दशहरे ५७४ कोटिरूप्यकाधिकव्ययेन निर्मितानां ५७ विकासपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। अस्मिन् अवसरे आयोजिते कार्यक्रमे सः अवदत् यत् अद्य उत्तरप्रदेश
मुख्यमंत्री योगी आदित्यनाथ ने शनिवार को बुलंदशहर में कार्यक्रम को संबोधित करते हुए


मुख्यमंत्री योगी आदित्यनाथ ने शनिवार को बुलंदशहर में कार्यक्रम को संबोधित करते हुए


मुख्यमंत्री योगी आदित्यनाथ ने शनिवार को बुलंदशहर में कार्यक्रम को संबोधित करते हुए


बुलंदशहरम्, 18 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे बुलन्दशहरे ५७४ कोटिरूप्यकाधिकव्ययेन निर्मितानां ५७ विकासपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्।

अस्मिन् अवसरे आयोजिते कार्यक्रमे सः अवदत् यत् अद्य उत्तरप्रदेशः बीमारु राज्यं नास्ति, अपितु देशस्य शीर्षत्रिषु राज्येषु अन्यतमः अस्ति। द्रुतमार्गनिर्माणे, चिकित्सामहाविद्यालयेषु, लघु सूक्ष्म मध्यमोद्यमेषु च उल्लेखनीयः विकासः अभवत्। सः अवदत् यत् २०१७ वर्षात् पूर्वं समाजवादीपक्षस्य शासनकाले मन्त्रिणः भयस्य गुण्डागर्द्याः च प्रतीकाः आसन्। प्रत्येकस्मिन् जनपदे कश्चन माफिया आसीत्, येन महिलानां कन्यानां च गृहात् निर्गमनम् अपि कठिनम् आसीत्। अधुना तु अपराधिनां कृते केवलं द्वौ मार्गौ स्तः। एकः कारागारः अपरः जहन्नुमः।

बुलन्दशहरस्य नुमाइशमैदाने आयोजिते अस्मिन् कार्यक्रमे मुख्यमन्त्री आगच्छति स्म तदा जनाः योगी योगी इति घोषैः तस्य स्वागतं कृतवन्तः। जनैः जय श्रीराम भारतमाता की जय इति घोषाः अपि कृताः। मञ्चे स्वागतसत्कारं जनकल्याणयोजनानां लाभार्थिभ्यः लाभवितरणं च सम्पन्ने सति मुख्यमन्त्री योगी आदित्यनाथः आयुष्मानयोजनातः आरभ्य गङ्गाद्रुतमार्गं, जेवरविमानस्थानकं, बुलन्दशहरे बाबू कल्याणसिंह चिकित्सामहाविद्यालयस्य स्थापना च स्वसर्वकारस्य विविधयोजनानां विस्तरेण उल्लेखम् अकरोत्।

सः अवदत् यत् बुलन्दशहरस्य जनतया सर्वे जनप्रतिनिधयः विजयीकृताः। अतः अस्माकं दायित्वं यत् बुलन्दशहरं विकासस्य नूतनशिखरं प्रति नयेम। एतत्कार्यं अत्रस्थाः सर्वे जनप्रतिनिधयः सम्यक् निर्वहन्ति। कृषकाणां भूमिपरिहारविषये भवतु अथवा खुर्जा नगरस्य मृद्भाण्डोद्योगविषये, सर्वकारेण सर्वस्तरेषु कार्यं कृतम्। कृषकेभ्यः भूमेः समुचितः प्रतिकरः प्रदत्तः, खुर्जा मृद्भाण्डोद्योगश्च वैश्विकस्तरे प्रतिष्ठां प्राप्तवान्।

पूर्ववर्तिनः समाजवादीपक्षस्य शासनस्य आलोचनां कुर्वन् सः अवदत् यत् पूर्वं नियुक्तयः सैफईपरिवारेण निर्धारिताः भवन्ति स्म तथा च धनवसूलिः अपि भवति स्म। अधुना तु सर्वाणि चयनकार्याणि पूर्णपारदर्शितया भवन्ति। अतः बुलन्दशहरस्य युवकाः युवत्यश्च नियुक्तिपत्राणि प्राप्नुवन्ति। पूर्वं महिलानां कन्यानां व्यापारीणां च सुरक्षा नासीत्, किन्तु अधुना अपराधिनः समूलं निवारिताः। महिलाः कन्याश्च निर्भयतया गमनागमनं कुर्वन्ति। व्यापारीणः अपि निर्भयतया स्वव्यापारं कुर्वन्ति, कस्यापि प्रकारस्य अवैधधनवसूलिः न भवति।

मुख्यमन्त्री जनैः सह प्रत्यक्षसंवादं कुर्वन् अवदत् यत् अहं पृच्छामि गङ्गाद्रुतमार्गः कथं निर्मितः। अत्रतः लखनऊनगरं प्रति गच्छन्तः जनप्रतिनिधयः उद्यमिनश्च वदन्ति यत् अयं वैश्विकमानदण्डानुसारः निर्मितः अस्ति। अयं गङ्गाद्रुतमार्गः केवलं द्रुतमार्गः नास्ति, अपितु उत्तरप्रदेशस्य भारतस्य च समृद्धेः प्रतीकः अस्ति। अद्य प्रदेशे पञ्चाशल्लक्षकोटिरूप्यकाधिकं निवेशम् आगतम्, यदा पूर्वं निवेशः न आगच्छत्। पूर्वं उत्तरप्रदेशस्य सीमाः गर्तैः अन्धकारेण च परिचिताः आसन्, अधुना तु परिस्थितिः पूर्णतया परिवर्तिता अस्ति। अतः सः बुलन्दशहरस्य जनतां प्रति आग्रहं कृतवान् यत् ते स्वजनप्रतिनिधिभ्यः निरन्तरम् आशीर्वादं ददतु। भारतीयजनतापक्षस्य द्वियन्त्रसर्वकारः विकासं विरासतां च समन्वय्य शीघ्रगत्या अग्रे गच्छति। भवन्तः निरन्तरम् आशीर्वादं ददतु, एषा द्वियन्त्रसर्वकारः विकासस्य गतिं अधिकं तीव्रां करिष्यति।

अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः बुलन्दशहरस्य सिकन्दराबादविधानसभाक्षेत्रयोः ५७४ कोटिरूप्यकाधिकव्ययेन ५७ विकासपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। तेन विविधजनकल्याणयोजनानां लाभार्थिभ्यः सङ्गणकयन्त्राणि, धनादेशाः, कुञ्चिकाः, तापमुद्रकयन्त्राणि, आयुष्मानपत्राणि, छात्रवृत्तयः, अनुदानानि, उपकरणसञ्चयाः, प्रमाणपत्राणि च वितरितानि। कार्यक्रमे एकजनपद एकोत्पाद इति योजनायाः प्रदर्शनीस्थानानां अवलोकनं कृत्वा उद्यमिनां उत्साहः अपि वर्धितः।

अस्मिन् कार्यक्रमे भारतीयजनतापक्षस्य पश्चिमक्षेत्राध्यक्षः नवाबसिंह नागरः, राज्यसभासदस्यः सुरेन्द्रनागरः, बुलन्दशहरस्य जनपदप्रभारी मन्त्री सुरेन्द्रसिंह दिलेरः, सांसदः डा भोला सिंहः, सदरविधायकः प्रदीप चौधरी, खुर्जाविधायिका मीनाक्षी सिंह, स्यानाविधायकः देवेन्द्र सिंह, सिकन्दराबादविधायकः लक्ष्मीराज सिंह, डिबाईविधायकः सीपी सिंह, अनूपशहरविधायकः संजय शर्मा, भारतीयजनतापक्षस्य जनपदाध्यक्षः विकास चौहान, जनपदप्रभारी बसन्त त्यागी तथा अन्ये सर्वे विधायकाः सांसदाश्च मञ्चे उपविष्टाः आसन्। स्थानीयजनप्रतिनिधयः मुख्यमन्त्री योगी आदित्यनाथस्य स्वागतं कृत्वा तस्मै गदां योगिराजकृष्णस्य प्रतिमां च समर्पितवन्तः। कार्यक्रमे मुख्यमन्त्री योगी आदित्यनाथस्य श्रवणार्थं स्थानीयजनानां विशालसमागमः अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani