मुख्यमन्त्री योगी अद्य बुलन्दशहर-अमरोहा-सम्भल-जनपदयोः भ्रमणं करिष्यति
लखनऊनगरम्, १८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य बुलन्दशहर-अमरोहा-सम्भल-जनपदानां भ्रमणं करिष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रथमं बुलन्दशहरं प्राप्स्यति। तत्र योगी रज्जू-भैया-सैनिक-विद्या-मन्दिरे, खण्
938e14c074c45c62eb15cc05a6f36d79_1666263282.jpg


लखनऊनगरम्, १८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य बुलन्दशहर-अमरोहा-सम्भल-जनपदानां भ्रमणं करिष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रथमं बुलन्दशहरं प्राप्स्यति। तत्र योगी रज्जू-भैया-सैनिक-विद्या-मन्दिरे, खण्डवाया-स्थले आयोजिते कार्यक्रमे सहभागिता करिष्यति। ततः सः नुमाइश-प्रांगणम् प्रति प्रस्थितः भविष्यति।

मुख्यमन्त्री नुमाइश-प्रांगणे ५७४-कोटि-रूप्यकेभ्यः अधिकमूल्यानां ५७ विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। एतदतिरिक्तं सः विविध-योजनानां लाभार्थिभ्यः धनादेशान्, गृह-कुञ्जिकाः, तापीय-मुद्रकान्, प्रमाणपत्राणि च वितरिष्यति। अत्र सः जनसभामपि सम्बोधयिष्यति।

बुलन्दशहरस्य अनन्तरं मुख्यमन्त्री अमरोहां गमिष्यति, यत्र गजरौलास्थिते श्री-वेङ्कटेश्वर-विश्वविद्यालये २०७-कोटि-रूप्यकेभ्यः अधिकमूल्यानां ४३ विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। अस्मिन् अवसरे विविध-योजनानां लाभार्थिभ्यः धनादेशान्, गृह-कुञ्जिकाः, लैपटॉप-यन्त्राणि तथा प्रमाणपत्राणि वितरिष्यति। अत्रापि सः जनसभां सम्बोधयिष्यति।

अमरोहा-भ्रमणस्य अनन्तरं मुख्यमन्त्री सम्भलं प्राप्स्यति। तत्र एकीकृत-मुख्यालयस्य समीपे आयोजिते कार्यक्रमे सः सहभागिता करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री योगी ५६९-कोटि-रूप्यकाणां ६६ विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। सहैव विविध-योजनानां लाभार्थिभ्यः प्रमाणपत्राणि वितरिष्यति। अत्रापि सः जनसभां सम्बोधयिष्यति। सम्भल-भ्रमणानन्तरं मुख्यमन्त्री बरेली-नगरमार्गेण लखनऊ-नगरं प्रति प्रस्थितः भविष्यति।

Hindusthan Samachar / Divya Ranjan