Enter your Email Address to subscribe to our newsletters

बाराबंकी, 18 जुलाईमासः (हि.स.)।
मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य विंशतितमे जुलैदिने महादेवधामागमनस्य सम्भावनायाः मध्ये जनपदप्रशासनेन सिद्धताः तीव्रीकृताः सन्ति। यद्यपि मुख्यमन्त्रिणः प्रस्तावितभ्रमणस्य आधिकारिककार्यक्रमः अद्यापि प्रकाशितो न जातः, तथापि शासनस्तरे प्रचलद्भिः कार्यकलापैः जनपदप्रशासनं पूर्णतया सतर्कावस्थायामस्ति।
मुख्यमन्त्रिणः सम्भावितकार्यक्रमं दृष्ट्वा मन्दिरपरिसरस्य, हेलिपट्टिकायाः, जनसभास्थलस्य तथा विशिष्टमार्गाणां निरन्तरम् निरीक्षणं क्रियते। जिलाधिकारिणा तथा पुलिसाधीक्षकेण स्वयमेव सर्वव्यवस्थानां पर्यवेक्षणं क्रियते। सुरक्षाव्यवस्था, यातायातप्रबन्धनम्, वाहनस्थापनव्यवस्था, पेयजलव्यवस्था, स्वच्छता, चिकित्सासुविधा तथा अन्यविभागानां सर्वासां सिद्धतानां परिपूर्त्यर्थम् आवश्यकनिर्देशाः प्रदत्ताः सन्ति। अधिकारिणां कथनानुसारं यथैव शासनतः अन्तिमकार्यक्रमः प्राप्स्यते तथैव सर्वासां व्यवस्थाः अन्तिमरूपेण सम्पन्नाः भविष्यन्ति।
मुख्यमन्त्रिणः सम्भावितागमनं दृष्ट्वा भारतीयजनतापक्षस्य सङ्गठनमपि सक्रियं जातम्। पक्षस्य पदाधिकारिणः सिद्धतानां समीक्षां कुर्वन्ति तथा कार्यकर्तृभ्यः विविधव्यवस्थासु सहयोगस्य उत्तरदायित्वं समर्पयन्ति। प्रशासनिकाधिकारिणां कथनानुसारम् आधिकारिककार्यक्रमस्य घोषणानन्तरं सुरक्षाव्यवस्था अधिकदृढा विधास्यते तथा सर्वेषां विभागानां संयुक्तदलानि स्थले नियुक्तानि भविष्यन्ति।
एतादृशी अपि चर्चा प्रचलति यत् मुख्यमन्त्री योगी आदित्यनाथः लोधेश्वरमहादेवधाम्नि प्रस्तावितस्य महादेवपरिसरविकासपरियोजनायाः शिलान्यासं कर्तुं शक्नोति। एतत्कारणात् प्रशासनिकचेष्टाः अपि तीव्रतां प्राप्ताः सन्ति। अपरं महादेवपरिसरविकासपरियोजनां प्रति स्थानीयवणिजां, श्रद्धालूनां तथा मन्दिरसम्बद्धजनानां मध्ये महानुत्साहः दृश्यते। तेषां मतमिदं यत् अस्याः परियोजनायाः सम्पन्नतया रामनगरक्षेत्रे धार्मिकपर्यटनस्य संवर्धनं भविष्यति तथा रोजगारस्य नवान्यवसराण्यपि वर्धिष्यन्ते। स्थानीयपूजारी पण्डितः श्यामू अवस्थी अवदत् यत् यदि मुख्यमन्त्रिणः करकमलाभ्यां अस्याः परियोजनायाः शिलान्यासः भविष्यति तर्हि एतत् क्षेत्रविकासस्य दिशि ऐतिहासिकं पदक्षेपं भविष्यति।
लोधेश्वरमहादेवधाम उत्तरप्रदेशस्य प्रमुखेषु शिवधामेषु परिगण्यते। श्रावणमासे महाशिवरात्र्यां च अत्र लक्षशः श्रद्धालवः जलाभिषेकार्थम् आगच्छन्ति। जनसमूहे वर्धमाने यातायातावरोधः, वाहनस्थापनसमस्या तथा मूलभूतसुविधानां न्यूनता पुनःपुनः दृश्यते। परिसरविकासपरियोजनायाः सम्पन्नतया श्रद्धालुभ्यः सुगमम् आवागमनम्, समुचितवाहनस्थापनव्यवस्था तथा अन्याः आवश्यकसुविधाः प्राप्स्यन्ते, येन धार्मिकपर्यटनमपि नूतनं परिमाणं प्राप्स्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani