Enter your Email Address to subscribe to our newsletters

लखनऊ, 18 जुलाईमासः (हि.स.)।उत्तरप्रदेशे ग्रामीणपर्यटनाय नूतनां परिचितिं प्रदातुं स्थानीययुवान् आत्मनिर्भरान् कर्तुं च पर्यटनविभागेन महत्त्वपूर्णा पहल कृता अस्ति। विभागस्य अधीनस्थे मान्यवरकांशीरामपर्यटनप्रबन्धनसंस्थाने एमकेआईटीएम इति संस्थायां प्रदेशस्य विविधजनपदेभ्यः आगतेभ्यः होमस्टेसञ्चालकेभ्यः जुलैमासस्य चतुर्दशदिनाङ्कात् अष्टादशदिनाङ्कपर्यन्तं पञ्चदिवसीयः आवासीयप्रशिक्षणकार्यक्रमः आयोजितः। अस्मिन् पञ्चत्रिंशत् प्रतिभागिनः होमस्टेव्यवस्थापनस्य प्रभावीरीत्या सञ्चालनस्य आधुनिकपर्यटनकौशलस्य उत्कृष्टातिथ्यसेवानां च व्यावहारिकप्रशिक्षणं प्राप्तवन्तः।
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अवदत् यत् पञ्चदिवसीये अस्मिन् प्रशिक्षणकार्यक्रमे सम्मिलिताः अधिकांशाः होमस्टेसञ्चालकाः युवानः सन्ति। एते औपचारिकशिक्षां सम्पन्न्य पर्यटनविभागस्य सहयोगेन स्वरोजगाररूपेण होमस्टेसञ्चालनम् अवलम्बितवन्तः। एषा पहल तेषां कृते रोजगारेन सह आत्मनिर्भरतायाः नूतनमार्गं प्रदर्शयति।
होमस्टेसञ्चालकान् व्यावसायिकातिथ्यसेवाप्रदातृरूपेण विकसितुं आयोजिते पञ्चदिवसीये प्रशिक्षणकार्यक्रमे तेषां व्यवसायस्य सफलसञ्चालनसम्बद्धाः सर्वे पक्षाः विस्तरेण अवगताः कृताः। विशेषज्ञैः न्यूनव्ययेन प्रभावीविपणनस्य होमस्टेपरिचयविकासस्य सामाजिकमाध्यमेषु अन्तर्जालप्रचारस्य च उपायाः शिक्षिताः। अतिथिपञ्जीकरणम् अभ्यर्थनानां निवारणम् सेवाप्रबन्धनम् शुल्कनिर्धारणम् मूल्यनिर्णयः व्ययनियन्त्रणम् इत्यादीनां व्यावहारिकज्ञानम् अपि प्रदत्तम्। प्रशिक्षणे गृहस्वच्छता भवनपरिपालनम् आकर्षकान्तरालसज्जा ऊर्जासंरक्षणम् वैकल्पिकऊर्जास्रोतसां उपयोगः च विशेषतया प्रतिपादितः।
एतदतिरिक्तं होमस्टेसञ्चालकेभ्यः उत्तमातिथ्यसेवा व्यक्तित्वविकासः शिष्टप्रस्तुतिः स्थानीयभोजनानां जैविकोत्पादानां मानकीकरणम् स्वच्छता सुरक्षा स्वास्थ्यरक्षा भोजनमेजाचारः सेवाविधानस्य सूक्ष्मतत्त्वानि च अवगतानि कारितानि। अङ्कीयभुगतानम् स्थानीयपर्यटनस्थलानां परिचयः प्रभावीप्रस्तुतीकरणम् इत्येषां विषयाणाम् अपि प्रशिक्षणं प्रदत्तम्। कार्यक्रमस्य अन्ते प्रतिभागिनां मूल्याङ्कनं प्रमाणपत्रवितरणं कृषिक्षेत्रभ्रमणस्य माध्यमेन व्यावहारिकानुभवप्रदानं च सम्पन्नम्। प्रशिक्षणं प्राप्तवत्सु प्रयागराजः फर्रुखाबादः अम्बेडकरनगरम् महाराजगञ्जः बिजनौरः सहारनपुरम् ललितपुरम् लखनऊ उन्नावः सीतापुरम् वाराणसी महोबा बाँदा चित्रकूटम् इत्येतेषां जनपदानां होमस्टेसञ्चालकाः सम्मिलिताः।
विजिट माय स्टेट कार्यक्रमे सहायकरूपेण होमस्टे आदर्शव्यवस्था पर्यटनमन्त्री
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अवदत् यत् प्रदेशस्य प्रमुखपर्यटनस्थलेषु देशीयविदेशीयपर्यटकानां निरन्तरवर्धमानागमनेन सह होमस्टेव्यवस्था अपि शीघ्रं लोकप्रियता प्राप्तवती। अनेन न केवलं पर्यटकेभ्यः निवासस्य उत्तमाः सुविधाः उपलब्धाः भवन्ति, अपि तु तेषां स्थानीयकलायाः संस्कृतेः पारम्परिकभोजनानां ग्रामीणजीवनशैल्याः च समीपतः अवगमनस्य अवसरः अपि प्राप्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani