551 आदर्श विद्यालयानां जातं लोकार्पणं, राघोपुरस्य हुलास विद्यालयः जातश्शिक्षायाः नूतनप्रारूपः
सुपौलम्, 19 जुलाईमासः (हि.स.)। बिहारराज्यस्य महत्त्वाकाङ्क्षिण्याः पहलस्य अन्तर्गतं रविवासरे उपमुख्यमन्त्री सम्राट चौधरी बेगूसरायनगरात् दूरसञ्चारस्य प्रत्यक्षमाध्यमेन राज्यस्य ५५१ आदर्शविद्यालयानाम् उद्घाटनम् अकरोत्। अस्मिन् अवसरे राघोपुरप्रखण्ड
Inauguration


inauguration


सुपौलम्, 19 जुलाईमासः (हि.स.)।

बिहारराज्यस्य महत्त्वाकाङ्क्षिण्याः पहलस्य अन्तर्गतं रविवासरे उपमुख्यमन्त्री सम्राट चौधरी बेगूसरायनगरात् दूरसञ्चारस्य प्रत्यक्षमाध्यमेन राज्यस्य ५५१ आदर्शविद्यालयानाम् उद्घाटनम् अकरोत्। अस्मिन् अवसरे राघोपुरप्रखण्डान्तर्गतस्य उत्क्रमितोच्चमाध्यमिकविद्यालयस्य हुलासस्थितस्य सरस्वतीविद्यानिकेतन आदर्शविद्यालयस्यापि लोकार्पणम् अभवत्। विद्यालयपरिसरे आयोजिते कार्यक्रमे अतिथिभिः फीता इत्येतत् छित्त्वा उद्घाटनं कृतं तथा च मुख्यमन्त्रिणः सम्बोधनस्य प्रत्यक्षप्रसारणम् अवलोकितम्। कार्यक्रमस्य अवधौ विद्यालये उत्साहपूर्णं वातावरणम् आसीत्। छात्राः छात्र्यः शिक्षकाः स्थानीयजनाश्च बहुसंख्यया सहभागिनः अभवन्।

मुख्यमन्त्री राज्यस्य विविधविद्यालयानां विद्यार्थिभिः निर्मितायाः प्रदर्शिन्याः अवलोकनं कृतवान् तथा तेषां प्रतिभायाः प्रशंसाम् अकरोत्। बालकानां सृजनशीलतां नवोन्मेषञ्च दृष्ट्वा तस्य मुखे प्रसन्नता स्पष्टतया प्रकटिता।

कार्यक्रमे प्रखण्डशिक्षापदाधिकारी सुनीलकुमारदेवः शिक्षाप्रेमी रविन्द्रविश्वासः कनिष्ठाभियन्ता कौशलकुमारः तथा हुलासपञ्चायतस्य मुखिया अनिलसरदारः विशेषरूपेण उपस्थिताः आसन्। अतिथिभिः विद्यालयस्य आदर्शविद्यालयरूपेण चयनितत्वे बधाई प्रदत्ता तथा उक्तं यत् अनेन क्षेत्रस्य विद्यार्थिभ्यः गुणवत्तायुक्ता शिक्षा आधुनिकसंसाधनानि उत्तमं शैक्षणिकवातावरणञ्च उपलब्धं भविष्यति।

विद्यालयस्य प्रधानाध्यापकः तरुणराजः अवदत् यत् आदर्शविद्यालयरूपेण चयनितत्वं समग्रक्षेत्रस्य गौरवस्य विषयः अस्ति। अनेन छात्राणां सर्वाङ्गीणविकासाय नूतना दिशा प्रदास्यते।

Hindusthan Samachar / Dheeraj Maithani