प्रत्येक सैन्य अभियानं भविष्याय नूतनं शिक्षणम् : पूर्व सेना प्रमुख जनरल मनोज पांडे
कोलकातायाम् आयोजित संगोष्ठ्यां पूर्व सेना प्रमुखः सैन्य आधुनिकीकरणे तकनीकी क्षमतायां च अददात् बलम् कोलकाता, 19 जुलाईमासः (हि.स.)। भारतस्य भविष्यस्य द्वे प्रमुखे आधारशिले राष्ट्रियसुरक्षा आर्थिकसुदृढता च इति प्रतिपादयन् भूतपूर्वः स्थलसेनाध्यक्षः ज
सैन्य परिचर्चा में उपस्थित वक्ता


कोलकातायाम् आयोजित संगोष्ठ्यां पूर्व सेना प्रमुखः सैन्य आधुनिकीकरणे तकनीकी क्षमतायां च अददात् बलम्

कोलकाता, 19 जुलाईमासः (हि.स.)। भारतस्य भविष्यस्य द्वे प्रमुखे आधारशिले राष्ट्रियसुरक्षा आर्थिकसुदृढता च इति प्रतिपादयन् भूतपूर्वः स्थलसेनाध्यक्षः जनरल् मनोजपाण्डे अवदत् यत् अतीतेषु कतिपयेषु वर्षेषु भारतेन स्वसामरिकसामर्थ्यस्य उल्लेखनीया प्रगतिः कृता, किन्तु भविष्यस्य चुनौतीनां परिप्रेक्ष्ये रक्षासज्जतां निरन्तरं अधिकसुदृढां कर्तुं परमावश्यकम्। सः ‘ऑपरेशन् सिन्दूर’ इत्यस्य उल्लेखं कृत्वा उक्तवान् यत् प्रत्येकं सैन्याभियानं भविष्याय नूतनां शिक्षां प्रयच्छति। तैः प्राप्तानुभवैः सशस्त्रबलानां रणनीतिः अधिकं सुदृढा करणीया।

कोलकातानगरे फेयरफील्ड् बाय् मैरियट् इति स्थले व्याना जियो इकोनॉमिक् फोरम् इत्यस्य आयोजनायां रविवासरे सायंकाले उद्घाटनराष्ट्रीयसङ्गोष्ठी सम्पन्ना। “उद्भासमाने वैश्विकव्यवस्थायां राष्ट्रियसुरक्षा आर्थिकस्थैर्यं च विकसितभारतस्य सामरिकप्राथमिकताः” इति विषये देशस्य प्रमुखैः सैन्याधिकारिभिः, सामरिकविशेषज्ञैः, अर्थशास्त्रिभिः, उद्योगजगतः प्रतिनिधिभिः, पूञ्जीबाजारविशेषज्ञैश्च विस्तृतः विचारविमर्शः कृतः। अस्मिन् कार्यक्रमे पूर्वीयसैन्यादेशस्य मुख्यकार्यालयाध्यक्षः लेफ्टिनेन्ट् जनरल् गम्भीरसिंहः, ब्रिगेडियर् आदित्यसहायः, अन्ये वरिष्ठसैन्याधिकारिणः, भूतपूर्वसैनिकाः, उद्योगपतयः, विविधक्षेत्राणां विशेषज्ञाश्च उपस्थिताः आसन्।

सङ्गोष्ठ्याः समापनसत्रे जनरल् मनोजपाण्डे अवदत् यत् अद्य विश्वं तीव्रगत्या परिवर्तते। कृत्रिमबुद्धिमत्ता, मानवविहीनविमानानि, साइबरयुद्धम्, अन्तरिक्षाधारितनिरीक्षणप्रणाल्यः, अत्याधुनिकायुधानि च युद्धस्य स्वरूपमेव परिवर्तितवन्ति। एतादृशे काले केवलं पारम्परिकसैन्यबलं पर्याप्तं न भविष्यति, अपि तु नवीनप्रौद्योगिकीनां शीघ्रस्वीकारः तासां सैन्याभियानेषु समावेशश्च समानरूपेण आवश्यकः।

तेन उक्तं यत् भविष्यस्य युद्धानि बहुआयामिकानि भविष्यन्ति, यत्र स्थलं, समुद्रः, वायुः, साइबरक्षेत्रम्, अन्तरिक्षक्षेत्रं च समानमहत्त्वं धारयिष्यन्ति। अतः भारतीयसशस्त्रबलैः एतेषु सर्वेषु क्षेत्रेषु एकीकृतसामर्थ्यं विकसितव्यं। सैनिकानां प्रशिक्षणे, आधुनिकायुधोपलब्धौ, प्रौद्योगिकीदक्षतायां, शीघ्रनिर्णयक्षमतायां च विशेषं ध्यानं दातव्यम्, येन कस्यापि चुनौतीनां प्रभावी प्रतिकारः कर्तुं शक्येत।

भूतपूर्वस्थलसेनाध्यक्षः अवदत् यत् आधुनिकयुद्धे प्रौद्योगिक्याः भूमिका निरन्तरं वर्धते, तथापि सैनिकस्य महान् बलम् अद्यापि तस्य अनुशासनम्, राष्ट्रनिष्ठा, प्रामाणिकता, साहसम्, कर्तव्यपरायणता चेति। एते गुणाः कदापि न परिवर्तन्ते, एते एव भारतीयसेनायाः विशिष्टपरिचायकाः सन्ति।

पूर्वं सम्पन्ने प्रथमे तकनीकीसत्रे “उद्भासमाने वैश्विकव्यवस्थायां भारतस्य रक्षासज्जता सामरिकप्रतिरोधक्षमता च” इति विषये लेफ्टिनेन्ट् जनरल् राजशुक्लः, लेफ्टिनेन्ट् जनरल् सुब्रतसाहा, लेफ्टिनेन्ट् जनरल् दुष्यन्तसिंहः, एयर् मार्शल् नागेशकपूरः च स्वस्वविचारान् प्रस्तुतवन्तः। वक्तारः परिवर्तमानवैश्विकसुरक्षापरिदृश्यं, राष्ट्रियसुरक्षारणनीतिं, ‘ऑपरेशन् सिन्दूर’ इत्यस्मात् प्राप्तानुभवान्, रक्षाक्षेत्रे आत्मनिर्भरता, सैन्याधुनिकीकरणम्, सामरिकप्रतिरोधक्षमतां, भविष्ययुद्धेषु नवीनप्रौद्योगिकीनां भूमिकां च विस्तरेण विवेचितवन्तः। तैः उक्तं यत् भारतेन स्वस्य रक्षासामर्थ्यं निरन्तरं विस्तारयता स्वदेशीयरक्षाउत्पादनम् अधिकं सुदृढं कर्तव्यम्।

द्वितीये सत्रे “राष्ट्रियसुरक्षायाः आधाररूपे आर्थिकसुरक्षा : वर्तमानभविष्यदृष्टिः” इति विषये करणदत्तः, डॉ. अजीतरानाडे, सुगतघोषदस्तीदारः, सिद्धार्थश्रीवास्तवः च सहभागित्वं कृतवन्तः। अस्मिन् सत्रे वैश्विकपूर्तिशृङ्खला, ऊर्जासुरक्षा, महत्त्वपूर्णोद्योगानां सुरक्षा, रक्षाव्ययः, प्रौद्योगिकीस्पर्धा, रक्षाविनिर्माणम्, रक्षानिर्यातः इत्यादिषु विषयेषु विस्तृतः विचारविमर्शः अभवत्। वक्तारः प्रतिपादितवन्तः यत् सुदृढामर्थव्यवस्थां विना कस्यापि राष्ट्रस्य राष्ट्रियसुरक्षा दीर्घकालपर्यन्तं स्थिरा न भवितुमर्हति। अतः रक्षाविकासः आर्थिकविकासश्च समवेतरूपेण प्रवर्तनीयौ।

कार्यक्रमे वक्तारः एतदपि बलपूर्वकम् उक्तवन्तः यत् भारते रक्षाउत्पादनक्षेत्रे निजीउद्योगानां सहभागिता निरन्तरं वर्धमाना अस्ति। अनेन न केवलं देशस्य रक्षावश्यकतानां पूर्तिः भविष्यति, अपि तु रक्षानिर्यातवृद्ध्या अर्थव्यवस्था अपि अधिका सुदृढा भविष्यति।

व्याना जियो इकोनॉमिक् फोरम् इत्यस्य अध्यक्षः लेफ्टिनेन्ट् जनरल् (सेवानिवृत्तः) तरुणकुमारआइचः अवदत् यत् राष्ट्रियसुरक्षा आर्थिकशक्तिश्च परस्परं न पृथक्कर्तुं शक्ये। एतस्यैव चिन्तनस्य आधारेण अस्य मञ्चस्य स्थापना कृता, यत् रक्षाक्षेत्रस्य, अर्थव्यवस्थायाः, उद्योगजगतः, सामरिकविषयविशेषज्ञानां च एकस्मिन् मञ्चे समागमेन तथ्याधारितः गम्भीरः विचारविमर्शः स्यात् तथा भारतस्य दीर्घकालिकसामरिकनीतिः अधिकं सुदृढा भवेत्।

सङ्गोष्ठ्याः समापनसत्रे मञ्चेन घोषिता यत् एषः देशे राष्ट्रियसुरक्षा, भूराजनीतिः, भूअर्थव्यवस्था च सम्बन्धिषु विषयेषु निरन्तरसंवादस्य प्रारम्भः अस्ति। आगामिषु कालेषु अस्य मञ्चस्य माध्यमेन विविधक्षेत्रेभ्यः विशेषज्ञान् एकत्र समानीय भारतस्य सुरक्षा, आर्थिकसुदृढता, वैश्विकनेतृत्वं च सम्बन्धिषु महत्त्वपूर्णेषु विषयेषु नियमितविमर्शाः आयोजयिष्यन्ते।-----------

Hindusthan Samachar / Dheeraj Maithani