उत्तर प्रदेशो निर्मास्यते गाम्आधारितार्थव्यवस्थायाः केंद्रं, प्रत्येकस्मिन् जनपदे प्रयोक्ष्यते बायोगैससंयंत्रम्
लखनऊ, 19 जुलाईमासः (हि.स.)।उत्तरप्रदेशे गोआधारितहरितार्थव्यवस्थायाः बृहत्तमः अभियानः प्रारभ्यते। प्रदेशस्य प्रत्येकस्मिन् जनपदे सहस्राधिकगृहेषु लघु बायोगैस संयन्त्राणि स्थापयितुं योजना सज्जीक्रियते। अस्यां योजनायां स्थिरसंयन्त्रैः सह वहनीयसंयन्त्रा
गोसेवा आयोग के अध्यक्ष श्याम बिहारी गुप्ता


लखनऊ, 19 जुलाईमासः (हि.स.)।उत्तरप्रदेशे गोआधारितहरितार्थव्यवस्थायाः बृहत्तमः अभियानः प्रारभ्यते। प्रदेशस्य प्रत्येकस्मिन् जनपदे सहस्राधिकगृहेषु लघु बायोगैस संयन्त्राणि स्थापयितुं योजना सज्जीक्रियते। अस्यां योजनायां स्थिरसंयन्त्रैः सह वहनीयसंयन्त्राण्यपि स्थाप्यन्ते। अस्मिन् महत्त्वाकाङ्क्षिणि प्रकल्पे आईआईटी दिल्ली संस्थानं तान्त्रिकसहभागिरूपेण कार्यं करिष्यति। अस्मिन् क्षेत्रे कार्यरताः पञ्चदशाधिकाः प्रमुखाः संस्थाः अपि ग्रामीणक्षेत्रेषु अस्याः परियोजनायाः क्रियान्वयने रुचिं प्रदर्शितवन्त्यः। एतत्सह ग्रामीणेभ्यः संयन्त्रस्थापनार्थम् अनुदानप्रदानस्य रूपरेखापि सज्जीक्रियते।

गावः ग्रामाणां नूतनार्थव्यवस्थायाः आधारः भविष्यन्ति

प्रदेशस्य गोशालाः ग्रामीणसंसाधनऊर्जाकेन्द्ररूपेण विकसिताः भविष्यन्ति। अत्र गोमयात् बायोगैस, बायो सीएनजी, जैविकसारः तथा भविष्ये कार्बनक्रेडिटपर्यन्ता सम्पूर्णा मूल्यशृङ्खला विकसिताः भविष्यन्ति। योगिसरकारस्य लक्ष्यं गोआधारितोत्पादान् आयस्य, ऊर्जायाः तथा रोजगारस्य स्थायिस्रोतरूपेण विकसितुम् अस्ति।

आधुनिकप्रौद्योगिकी तथा निजीक्षेत्रस्य अनुभवः ग्रामेषु प्राप्स्यति

उत्तरप्रदेशगोसेवायोगस्य अध्यक्षः श्यामबिहारीगुप्तः रविवासरे अवदत् यत् अस्याः योजनायाः महत्तमा शक्तिः तान्त्रिकऔद्योगिकसहयोगः अस्ति। आईआईटी दिल्ली संस्थानं संयन्त्रस्य प्रौद्योगिकी, सञ्चालनं, परिपालनं तथा युवजनप्रशिक्षणस्य दायित्वं वहिष्यति। अपरतः अस्मिन् क्षेत्रे कार्यरताः पञ्चदशाधिकाः प्रमुखाः संस्थाः प्रदेशस्य ग्रामीणक्षेत्रेषु परियोजनायाः क्रियान्वयने विस्तारे च सहभागितां कर्तुं अग्रे आगताः। अनेन आधुनिकप्रौद्योगिक्याः तथा निजीक्षेत्रस्य अनुभवस्य लाभः ग्रामेभ्यः प्राप्स्यते।

हरितप्राविधिकविशेषज्ञानां नूतना पीढी सज्जीभविष्यति

आईआईटी दिल्ली संस्थानस्य प्रशिक्षणकार्यक्रमेण प्रदेशस्य युवभ्यः बायोगैस संयन्त्रस्य स्थापना, सञ्चालनं तथा परिपालनविषये प्रशिक्षणं प्रदास्यते। अनेन हरितप्राविधिकविशेषज्ञानां नूतना पीढी निर्मास्यते। तथैव स्वसहायतासमूहानां ग्रामीणोद्यमिनां च कृते स्वरोजगारस्य नूतनाः अवसराः अपि उत्पत्स्यन्ते।

एलपीजी उपरि निर्भरता न्यूना भविष्यति, जैविककृषेः प्रोत्साहनं भविष्यति

संयन्त्रेण उत्पादितस्य वायोः उपयोगः गृहे इन्धनरूपेण भविष्यति, येन ग्रामीणपरिवाराणां पाकशालायाः इन्धनव्ययः न्यूनः भविष्यति। संयन्त्रात् निर्गता स्लरी उच्चगुणवत्तायुक्तजैविकसाररूपेण क्षेत्रेषु प्रयुज्यते। अनेन रासायनिकसारेषु निर्भरता न्यूना भविष्यति तथा प्राकृतिककृषेः प्रोत्साहनं भविष्यति।

ग्रामीणस्वावलम्बनस्य नूतना दृष्टान्तः भविष्यति एषः आदर्शः

गोसेवायोगस्य अध्यक्षः श्यामबिहारीगुप्तः अवदत् यत् अस्य अभियानस्य उद्देश्यं ग्रामीणक्षेत्राणाम् ऊर्जाविषये स्वावलम्बित्वस्य संवर्धनं जैविकसारोत्पादनस्य वर्धनं च अस्ति। संयन्त्रस्थापनार्थं ग्रामीणेभ्यः अनुदानप्रदानस्य योजना अपि सज्जीक्रियते। आगामिषु कालेषु अयं आदर्शः उत्तरप्रदेशं देशस्य गोआधारितहरितार्थव्यवस्थायाः अग्रणीराज्यरूपेण प्रतिष्ठापयिष्यति।

Hindusthan Samachar / Dheeraj Maithani