मुख्यमंत्री 551 आदर्श विद्यालयानां कृतम्उद्घाटनम्, शिक्षा सुधारैः सह बह्वीनां विकास परियोजनानां घोषणा
बेगूसरायः, 19 जुलाईमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राटचौधरी रविवासरे बेगूसरायस्थे इण्डियन ऑयल कॉर्पोरेशन लिमिटेड स्टेडियमे आयोजिते राज्यस्तरीयसमारोहे प्रदेशस्य ५५१ सरस्वतीविद्यानिकेतनानाम् आदर्शविद्यालयानां युगपत् उद्घाटनम् अकरोत्। अस्मिन् अ
बिहार के बेगूसराय में मुख्यमंत्री '551 सरस्वती विद्या निकेतन (आदर्श विद्यालय)' के उद्घाटन बाद लोगों को सम्बोधित करते हुए


बेगूसरायः, 19 जुलाईमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राटचौधरी रविवासरे बेगूसरायस्थे इण्डियन ऑयल कॉर्पोरेशन लिमिटेड स्टेडियमे आयोजिते राज्यस्तरीयसमारोहे प्रदेशस्य ५५१ सरस्वतीविद्यानिकेतनानाम् आदर्शविद्यालयानां युगपत् उद्घाटनम् अकरोत्। अस्मिन् अवसरे सः शिक्षां विकसितसमाजस्य महत्तमशक्तिरूपेण वर्णयन् अवदत् यत् बिहारसरकारः गुणवत्तायुक्तां, प्रौद्योगिकीसमन्वितां, संस्कारसम्पन्नां च शिक्षाव्यवस्थां विकसितुं निरन्तरं प्रयतते। सः उक्तवान् यत् सरकारस्य दृढसङ्कल्पः अस्ति यत् बिहारः पठिष्यति तदा एव बिहारः प्रगतिं करिष्यति।

मुख्यमन्त्री अवदत् यत् राजकीयविद्यालयेष्वपि निजीविद्यालयानां सदृशम् आधुनिकं शैक्षणिकवातावरणं निर्मीयते, येन ग्रामीणक्षेत्रेषु आर्थिकदृष्ट्या दुर्बलवर्गस्य बालकाः समानान् अवसरान् प्राप्नुयुः। सः उक्तवान् यत् शिक्षाव्यवस्थायां डिजिटलप्रौद्योगिक्याः व्यापकप्रयोगेन विद्यार्थिभ्यः उत्तमाः अध्यापनसुविधाः प्रदीयन्ते।

तेन उक्तं यत् अर्वाचीनेन प्रारब्धया बिहार स्कूल लाइव क्लासेज इति योजनया विद्यार्थिनः राज्यस्य उत्कृष्टशिक्षकैः सह ऑनलाइन अध्ययनस्य अवसरं प्राप्नुवन्ति। एतदतिरिक्तं पञ्चदश अगस्ततः फिलो एप इत्यस्य माध्यमेन प्रत्यक्षसंवादात्मककक्षाणां प्रारम्भः भविष्यति, येन छात्राः विशेषज्ञशिक्षकैः सह प्रत्यक्षसम्पर्कं स्थापयित्वा अध्ययनं कर्तुं शक्नुवन्ति।

मुख्यमन्त्री अवदत् यत् चयनितविद्यालयेषु स्मार्ट क्लासरूम, डिजिटल स्टूडियो, आधुनिकविज्ञानप्रयोगशालाः तथा नीट, जेईई इत्यादीनां प्रतियोगितापरीक्षाणां सिद्धतायै विशेषसुविधाः विकसिताः भवन्ति। सः उक्तवान् यत् सरकारस्य उद्देश्यं बिहारस्य विद्यार्थिभ्यः उच्चगुणवत्तायुक्तां शिक्षां प्रदातुम् अस्ति, येन प्रतियोगितापरीक्षाणां सिद्धतायै तेषां परराज्येषु निर्भरता न भवेत्।

सम्राटचौधरी अवदत् यत् एकस्मिन्नेव दिने ५५१ आदर्शविद्यालयानाम् उद्घाटनं राज्यस्य ऐतिहासिकी उपलब्धिः अस्ति। एतेषु विद्यालयेषु प्रायः चत्वारि लक्षाणि विद्यार्थिनः अध्ययनं कर्तुं शक्नुवन्ति। सः उक्तवान् यत् एते विद्यालयाः केवलं नूतनाः शैक्षणिकसंस्थाः न सन्ति, अपितु बिहारस्य नूतनशिक्षानीतेः विकसितबिहारसङ्कल्पस्य च दृढाधाराः सन्ति। एतेषां माध्यमेन विद्यार्थिषु ज्ञानस्य, अनुशासनस्य, संस्कारस्य तथा राष्ट्रनिर्माणभावनायाः विकासः भविष्यति।

मुख्यमन्त्री शिक्षकैः सम्बन्धितहितानामपि उल्लेखं कृत्वा अवदत् यत् तेषां सुविधावृद्धये सरकारः निरन्तरं पदक्षेपान् गृह्णाति। सः घोषणामकरोत् यत् एकोनत्रिंशत् जुलाईतः शिक्षकैः स्थानान्तरणप्रक्रिया पारदर्शिव्यवस्थायाः अन्तर्गतं प्रारभ्यते। सहैव तेन उक्तं यत् पञ्चदश जुलाईदिने राज्ये २११ उपाधिमहाविद्यालयानां प्रारम्भः कृतः तथा विक्रमशिलाविश्वविद्यालयस्य स्थापनार्थं भूमिरपि प्रदत्ता अस्ति।

अस्मिन् अवसरे मुख्यमन्त्री बेगूसरायस्य तथा राज्यस्य विकाससम्बद्धाः अनेकाः महत्त्वपूर्णाः घोषणाः अपि अकरोत्। सः उक्तवान् यत् राष्ट्रकवेः रामधारीसिंह दिनकरस्य जन्मभूमौ बेगूसराये तस्य नाम्ना एकस्य विश्वविद्यालयस्य स्थापना भविष्यति, यत् उच्चशिक्षायाः, अनुसन्धानस्य, साहित्यस्य तथा भारतीयचिन्तनस्य प्रमुखकेन्द्रं भविष्यति।

तेन बेगूसराये दश एकड भूमौ भगवान् श्रीवेङ्कटेश्वरस्य तिरुपतिमन्दिरस्य निर्माणस्य अपि घोषणा कृता। तस्य मते एतत् मन्दिरं धार्मिकश्रद्धायाः संवर्धनस्य सह पर्यटनस्य स्थानीयार्थव्यवस्थायाश्च नूतनां गतिं प्रदास्यति।

मुख्यमन्त्री अवदत् यत् सिमरियातः भागलपुरपर्यन्तं गङ्गानद्याः तीरे मरीन ड्राइव मार्गस्य निर्माणं भविष्यति, येन पर्यटनस्य, आवागमनस्य तथा गङ्गातटस्य समग्रविकासस्य प्रोत्साहनं भविष्यति। तेन रक्सौल हल्दिया एक्सप्रेस वे परियोजनायाः अपि उल्लेखः कृतः। सः उक्तवान् यत् अस्याः परियोजनायाः निर्माणेन बिहारस्य सम्पर्कव्यवस्था अधिका सुदृढा भविष्यति। परियोजनायाः पूर्णतायाम् अनन्तरं बेगूसराय, मुंगेर तथा समीपवर्तिक्षेत्रेभ्यः कोलकातानगरं प्रायः पञ्चघण्टाभिः प्राप्यं भविष्यति। तेन उद्योगस्य, वाणिज्यस्य, कृषेः, परिवहनस्य तथा निवेशस्य नूतना गतिः भविष्यति।

समारोहं केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः, उपमुख्यमन्त्री विजयकुमारचौधरी, शिक्षामन्त्री मिथिलेशतिवारी, बेगूसरायस्य प्रभारीमन्त्री सहकारितामन्त्री रामकृपालयादवः, इक्षुउद्योगमन्त्री संजयकुमारः तथा विधायकः कुन्दनकुमारः अपि सम्बोधितवन्तः। कार्यक्रमे विधायकः सुरेन्द्रमेहता, विधायकः रजनीशकुमारः, विधायकः नरेन्द्रकुमारसिंह बोगोसिंह, विधायकः अभिषेकआनन्दः, विधानपार्षदः सर्वेशकुमारः तथा बहुसंख्यकाः जनप्रतिनिधयः, वरिष्ठाधिकारिणः, छात्राः, छात्र्यः तथा सामान्यनागरिकाः उपस्थिताः आसन्।-------------

Hindusthan Samachar / Dheeraj Maithani