Enter your Email Address to subscribe to our newsletters

-क्रिसिल-नीति आयोगस्य संयुक्ते आकलने छत्तीसगढ़ाय 47.5 अंकाः
रायपुरम्, 19 जुलाईमासः (हि.स.)।
मुख्यमन्त्रिणः विष्णुदेवसायमहाभागस्य नेतृत्वे निवेशकहितैषिणीनां नीतिनां, सुशासनस्य तथा प्रशासनिकसुधाराणां प्रभावः राष्ट्रियस्तरे स्पष्टतया दृश्यते। क्रिसिलनीतिआयोगयोः इन्वेस्टमेण्टफ्रेण्डलीनेसइण्डेक्स आईएफआई २०२६ इत्यस्य मूल्याङ्कने छत्तीसगढराज्यं नियमपालनसुलभता रेग्युलेटरी ईज तथा संस्थागतपरिवेशः इन्स्टिट्यूशनल एनवायरन्मेण्ट इत्येतयोः निवेशस्य द्वयोः प्रमुखमानकयोः देशस्य सप्तदश बृहद्राज्येषु प्रथमस्थानं प्राप्तवत्। पर्यावरणीयलचीलत्वस्य एन्वायरन्मेण्ट रेजिलिएन्स विषये राज्यं द्वितीयस्थाने स्थितम्।
मुख्यमन्त्रिकार्यालयेन प्रदत्ता सूचनानुसारं क्रिसिलनीतिआयोगयोः संयुक्तमूल्याङ्कने छत्तीसगढराज्यमाहत्य ४७.५ अङ्कान् प्राप्तवत्। समग्रक्रमनिर्धारणे राज्यं सप्तदश बृहद्राज्येषु नवमस्थानं प्राप्तवत्, किन्तु निवेशकविश्वाससम्बद्धेषु अत्यन्तमहत्त्वपूर्णेषु मानकेषु तस्य प्रदर्शनं देशे सर्वोत्तमम् आसीत्। राज्ये निवेशकानां वर्धमानविश्वासः अस्मात् अपि स्पष्टः भवति यत् गताष्टादशमासेषु प्रायः अष्टलक्षकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः। एतेषु सेमिकण्डक्टर, कृत्रिमबुद्धिमत्तादत्तांशकेन्द्रम्, वस्त्रोद्योगः, औषधनिर्माणोद्योगः तथा कृषिउत्पादनप्रक्रियासम्बद्धाः भाविउद्योगप्रस्तावाः अन्तर्भवन्ति।
आईएफआई २०२६ इत्यस्य अनुसारं नियमपालनसुलभतामानके छत्तीसगढराज्यं द्वादश अङ्केषु ८.४ अङ्कान् प्राप्तवत्, ये राजस्थान, गुजरात, पञ्जाब तथा तमिळनाडुराज्येभ्यः अपि अधिकाः सन्ति। उद्योगानां स्वीकृतिः, अनापत्तिप्रमाणपत्रम्, निर्माणानुमतिः, विद्युत् तथा जलसम्पर्कप्रदानप्रक्रियाणां शीघ्रता तथा न्यूनानुपालनव्ययः अस्य प्रमुखकारणत्वेन परिगण्यते।
संस्थागतपरिवेशमानके राज्यं षड्भ्यः अङ्केभ्यः ४.५ अङ्कान् प्राप्तवत्। शासनगुणवत्ता, नीतिस्थैर्यम्, शिकायतानां शीघ्रसमाधानम् तथा श्रमिकविवादानां प्रभाविनिपटानम् इत्यादिषु मानकेषु उत्कृष्टप्रदर्शनेन छत्तीसगढराज्यं अस्यां श्रेण्यां प्रथमस्थानं प्राप्तवत्। पर्यावरणीयलचीलत्वस्य विषये राज्यं पञ्चभ्यः अङ्केभ्यः चत्वारः अङ्कान् प्राप्तवत् तथा अस्यां श्रेण्यां केवलं तमिळनाडुराज्यमेव तस्मात् अग्रे अस्ति। प्राकृतिकविपदां प्रतिकारार्थं श्रेष्ठतत्परता तथा सुरक्षितौद्योगिकपरिवेशः अस्य प्रमुखविशेषता मन्यते।
संसाधनानाम् उपलब्धतायाः विषये छत्तीसगढराज्यं बृहद्राज्येषु तृतीयस्थानं प्राप्तवत्। राज्यं देशस्य द्वितीयं महत्तमं कोयलालिग्नाइटोत्पादकराज्यम् अस्ति। वित्तीयस्वास्थ्यस्य मानके राज्यं सप्तभ्यः अङ्केभ्यः ५.४ अङ्कान् प्राप्तवत्। राज्यस्य सकलमूल्यवर्धने जीवीए उद्योगक्षेत्रस्य ५२.८ प्रतिशतभागीदारी तस्य सुदृढौद्योगिकार्थव्यवस्थायाः सूचिका अस्ति। राज्ये उद्योगेभ्यः स्पर्धात्मकदरेषु विश्वसनीयविद्युत्सुविधा उपलब्धा अस्ति तथा महिलानां कार्यबलभागीदारी ५८.१ प्रतिशतं वर्तते, या बृहद्राज्यानाम् औसतमानात् बहु अधिका अस्ति। उद्योगसमापनप्रक्रियायां विधिव्ययः अपि देशस्य न्यूनतमव्ययराज्येषु परिगण्यते।
मुख्यमन्त्रिणः विष्णुदेवसायमहाभागस्य सर्वकारेण औद्योगिकविकासनीतेः २०२४ ३०, जनविश्वासअधिनियमः तथा ईज आफ् डूइङ्ग बिजनेस अधिनियमः २०२६ इत्यादयः सुधाराः प्रवर्तिताः, येन निवेशप्रक्रिया अधिका सरला कृता। नवारायपुरे देशस्य प्रथमस्य कृत्रिमबुद्धिमत्तादत्तांशकेन्द्रोद्यानस्य निर्माणकार्यं अपि तीव्रगत्या प्रवर्तते, येन राज्यं डिजिटलार्थव्यवस्थायाः तथा उदयमानोद्योगानां नूतनकेन्द्रत्वेन विकसितुं अग्रे गच्छति।
Hindusthan Samachar / Dheeraj Maithani