Enter your Email Address to subscribe to our newsletters

शिमला, 19 जुलाईमासः (हि.स.)।
हिमाचलप्रदेशशासनं नवीनाम् औद्योगिकनीतिं प्रस्तोतुं सज्जं भवति। मुख्यमंत्री सुखविन्दरसिंहसुक्खूः उक्तवान् यत् अस्यां नीतौ उद्योगानां कृते विद्युत्शुल्कस्य न्यूनतायाः प्रावधानं भविष्यति, येन राज्ये निवेशः वर्धिष्यते। सः निवेशकान् हिमाचलप्रदेशे उद्योगस्थापनाय आह्वयन् अवदत् यत् राज्यं निवेशस्य कृते देशस्य सर्वोत्तमेषु स्थानेषु अन्यतमम् अस्ति तथा शासनम् उद्योगेभ्यः सर्वथा सहयोगं प्रदातुं प्रतिबद्धम् अस्ति।
मुख्यमंत्री शनिवासरे सायंकाले चण्डीगढे आयोजिते चण्डीगढ लीडरशिप कॉन्क्लेव तथा टाई द इण्डस एन्ट्रप्रेन्योर्स चण्डीगढ इत्यस्य त्रयोविंशतितमे वार्षिकसामान्योपवेशने सम्बोधनम् अकरोत्। सः अवदत् यत् हिमाचलप्रदेशे चतुर्विंशतिघण्टाः विद्युत्पूरणं निरन्तरम् उपलब्धम् अस्ति। राज्यशासनं नवीनया औद्योगिकनीत्या निवेशप्रोत्साहनार्थं विद्युत्शुल्केषु रियायतिं प्रदास्यति। सः अवदत् यत् आगामिवर्षेषु हिमाचलप्रदेशः हरितहाइड्रोजनोत्पादनक्षेत्रे देशस्य अग्रणीराज्यं भवितुं प्रयतते। स्वच्छऊर्जायाः प्रोत्साहनार्थं प्रदेशस्य विविधेषु भागेषु बायोचारसंयन्त्राणि स्थाप्यन्ते। किन्नौरजनपदे भूतापीयऊर्जापरियोजना अपि स्थापिता अस्ति।
मुख्यमंत्री अवदत् यत् हिमाचलप्रदेशः विद्युतोत्पादनस्य दृष्ट्या अधिशेषराज्यम् अस्ति। अतः पंजाबराज्येन सह त्रिवर्षीयविद्युत्क्रयसम्झौताय हस्ताक्षराणि क्रियमाणानि सन्ति। सः पंजाबराज्यं हिमाचलस्य ज्येष्ठभ्राता इति सम्बोध्य अवदत् यत् उभयोः राज्ययोः मध्ये दीर्घकालात् उत्तमसम्बन्धाः सन्ति तथा भविष्ये अपि हिमाचलप्रदेशः पंजाबराज्याय विद्युत्पूरणं करिष्यति।
सः अवदत् यत् सूचनाप्रौद्योगिकीक्षेत्रस्य कृते अपि हिमाचलप्रदेशः अनुकूलं वातावरणं प्रददाति। राज्यशासनं दत्तांशसञ्चयनसम्बद्धाधारभूतसंरचनाविकासाय कार्यं करोति। सोलनजनपदस्य कण्डाघाटक्षेत्रे सूचना प्रौद्योगिकी उद्यानस्य विकासः क्रियते।
मुख्यमंत्री अवदत् यत् वस्तुसेवाकरव्यवस्थायाः प्रवर्तनात् पूर्वं प्रदेशस्य औद्योगिकक्षेत्रेभ्यः राज्याय प्रायः चतुःसहस्रकोटिरूप्यकाणां राजस्वं लभ्यते स्म, किन्तु वस्तुसेवाकरस्य प्रवर्तनानन्तरं तत् न्यूनीभूय प्रायः शतपञ्चाशत् द्विशतकोटिरूप्यकपर्यन्तं जातम्। सः अवदत् यत् राज्यशासनं हिमाचलप्रदेशस्य भौगोलिकपरिस्थितीन् दृष्ट्वा स्वकीयासु औद्योगिकनीतिषु परिवर्तनं करोति।
मुख्यमंत्री अवदत् यत् प्राकृतिकविपदां प्रभावः केवलं हिमाचलप्रदेशे एव न दृश्यते, अपितु देशस्य अन्येष्वपि राज्येषु दृश्यते। वैश्विकतापनस्य कारणात् मेघविस्फोटसदृशाः घटनाः वर्धन्ते। सः अवदत् यत् वर्षाकाले अपि हिमाचलप्रदेशः पर्यटनाय सुरक्षितः अस्ति। जनैः केवलं नदीभ्यः पर्वतीयजलप्रवाहेभ्यश्च दूरी पालनीया। सः अवदत् यत् वर्षाकाले प्रदेशे प्रायः पञ्चसप्ततिलक्षजनाः सामान्यजीवनं यापयन्ति। अतः पर्यटकाः निर्भयतया हिमाचलप्रदेशम् आगन्तुं शक्नुवन्ति।
सुखविन्दरसिंहसुक्खू अवदत् यत् हिमाचलप्रदेशः चण्डीगढे स्वस्य सप्तदशांशद्वयेन नवदशशतांशस्य अधिकारभागस्य प्राप्त्यर्थं निरन्तरं प्रयतते तथा अस्मिन् विषये वार्तालापः प्रचलति। सः अवदत् यत् चण्डीगढतः बद्दीपर्यन्तं रेलमार्गस्य विकासः क्रियते। भूम्यधिग्रहणस्य निर्माणव्ययस्य च पञ्चाशत्प्रतिशतं भागं हिमाचलप्रदेशशासनं वहति। आगामित्रिवर्षेषु एषा परियोजना सम्पन्ना भविष्यति इति अपेक्षा अस्ति, येन बद्दी तथा नालागढक्षेत्रयोः उद्योगाः विशेषं लाभं प्राप्स्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani