Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 जुलाईमासः (हि.स.)। काङ्ग्रेसदलस्य अध्यक्षः राज्यसभायां प्रतिपक्षनेता च मल्लिकार्जुन खरगे, लोकसभायां प्रतिपक्षनेता राहुलगान्धी च संयुक्तपत्रं लिखित्वा प्रधानमन्त्री नरेन्द्रमोदिनं प्रति श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य वित्तीयव्यवहाराणां स्वतन्त्रां व्यापकां च अन्वेषणप्रक्रियाम् आरभितुं प्रार्थितवन्तौ। उभावपि नेतारौ आरोपितवन्तौ यत् न्यासे वित्तीयानियमितताभिः लक्षशः श्रद्धालूनाम् आस्था प्रभाविताभवति तथा च अस्मिन् सम्पूर्णे विषये प्रधानमन्त्रीणः मौनम् अत्यन्तं चिन्ताजनकम् अस्ति।
खरगे राहुलगान्धी च स्वस्मिन् संयुक्तपत्रे उक्तवन्तौ यत् देशस्य सर्वेभ्यः प्रदेशेभ्यः लक्षशः श्रद्धालवः श्रद्धया विश्वासेन च स्वस्य परिश्रमेणार्जितं धनं न्यासाय दानरूपेण समर्पितवन्तः, किन्तु वित्तीयानियमितताभिः ते स्वान् वञ्चितानिव अनुभवन्ति। तयोः मतम् अस्ति यत् श्रद्धालूनां विश्वासस्य दानस्य च पारदर्शिता सुनिश्चितकर्तुं शासनस्य सम्बद्धसंस्थानानां च दायित्वम् अस्ति।
पत्रे उभावपि नेतारौ उक्तवन्तौ यत् प्रधानमन्त्री संसदि उच्चतमन्यायालयस्य निर्देशानुसारं श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य गठनस्य घोषणाम् अकरोत्, न्यासस्य सदस्यनियुक्तिश्च केन्द्रशासनेन कृता। ताभ्यां दावीकृतं यत् न्यासस्य बहवः सदस्याः राष्ट्रियस्वयंसेवकसङ्घेन विश्वहिन्दूपरिषदेन तैः सम्बद्धैः संस्थाभिश्च सम्बद्धाः आसन् तथा न्यासस्य पूर्वमहासचिवः अपि प्रधानमन्त्रीणः निकटसहयोगी आसीत्। काङ्ग्रेसनेतारौ उक्तवन्तौ यत् एतेषु गम्भीरारोपेषु सति अपि प्रधानमन्त्रीणः मौनम् उचितं नास्ति तथा उत्तरदायित्वस्य सुनिश्चितीकरणं तस्य कर्तव्यम् अस्ति।
पत्रे एषा मागणी कृता यत् न्यासस्य सर्वेषां वित्तीयव्यवहाराणां तथा नगदधनस्य सुवर्णस्य रजतस्य च सर्वविधानां चढावस्य संग्रहस्य प्रबन्धनस्य उपयोगस्य च स्वतन्त्रं व्यापकं च अन्वेषणं क्रियताम्। सहैव अन्वेषणप्रतिवेदनं सार्वजनिकं क्रियताम्, येन प्रत्येकः श्रद्धालुः ज्ञातुं शक्नुयात् यत् तेन प्रदत्तं दानं कथं विनियुक्तम् अभवत्। उभावपि नेतारौ उक्तवन्तौ यत् अन्वेषणे दोषिणः सिद्धाः सर्वे जनाः स्वपदस्य प्रभावस्य वा अपेक्षां विना विधिसम्मतां कार्यवाहीं प्राप्नुयुः।
संयुक्तपत्रं साझीकुर्वन् काङ्ग्रेसाध्यक्षः मल्लिकार्जुन खरगे सामाजिकमाध्यममञ्चे ‘एक्स’ इति प्रकाशितवान् यत् श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य वित्तीयव्यवहाराणां निष्पक्षं व्यापकं च अन्वेषणं करणीयम्। तेन आरोपितं यत् श्रद्धया विश्वासेन च दानं दत्तवन्तः लक्षशः श्रद्धालवः वित्तीयगड्बडीकारणात् स्वान् वञ्चितानिव अनुभवन्ति।
लोकसभायां प्रतिपक्षनेता राहुलगान्धी अपि ‘एक्स’ इति सामाजिकमाध्यममञ्चे पत्रं साझीकृत्य आरोपितवान् यत् श्रीराममन्दिरे कोटिशः श्रद्धालवः श्रद्धया स्वपरिश्रमेणार्जितं धनं समर्पितवन्तः, किन्तु चढावचौर्यस्य विषयः अधुना सार्वजनिकचर्चायाः विषयः अभवत्। तेन उक्तं यत् न्यासस्य प्रत्येकस्य सदस्यस्य चयनं केन्द्रशासनेन कृतम् आसीत् तथा च अस्मिन् सम्पूर्णे प्रकरणे प्रधानमन्त्रीणः मौनम् अस्वीकार्यं वर्तते।------------
Hindusthan Samachar / Dheeraj Maithani