प्रधानमंत्री मोदी, गृह मंत्री शाहः राजनाथ सिंहश्च दिल्ल्याः मुख्यमंत्री रेखा गुप्ता इत्यस्यैःअददुः जन्मदिनस्य वर्धापनानि
नव दिल्ली, 19 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री सहकारितामन्त्री च अमितशाहः, रक्षामन्त्री राजनाथसिंहः तथा अन्ये बहवः नेतारः रविवासरे दिल्लीमुख्यमन्त्रिणीं रेखागुप्तां जन्मदिवसस्य शुभावसरे हार्दिकशुभकामनाः प्रदत्तवन्तः। प्र
प्रतीकात्मक


नव दिल्ली, 19 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री सहकारितामन्त्री च अमितशाहः, रक्षामन्त्री राजनाथसिंहः तथा अन्ये बहवः नेतारः रविवासरे दिल्लीमुख्यमन्त्रिणीं रेखागुप्तां जन्मदिवसस्य शुभावसरे हार्दिकशुभकामनाः प्रदत्तवन्तः।

प्रधानमन्त्री नरेन्द्रमोदी सामाजिकमाध्यमे एक्स इत्यत्र अलिखत्— “दिल्लीमुख्यमन्त्रिणी रेखागुप्तायै जन्मदिवसस्य हार्दिकाः शुभकामनाः। दिल्लीनगरस्य प्रगतिवर्धनाय तथा नागरिकानां जीवनं सुकरं कर्तुं भवत्याः प्रयत्नाः प्रशंसनीयाः सन्ति। तस्याः दीर्घायुषः उत्तमस्वास्थ्यस्य च मम हार्दिकी मङ्गलकामना अस्ति।”

अमितशाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे रेखागुप्ता दिल्लीनगरं सुन्दरं स्वच्छम् आत्मनिर्भरं च कर्तुं निरन्तरं प्रयतते।

राजनाथसिंहः उक्तवान् यत् रेखागुप्ता दिल्लीनगरस्य नागरिकानां विकासाय कल्याणाय च पूर्णनिष्ठया कार्यं कुर्वती अस्ति। सा एवमेव जनसेवायां निरता भूत्वा दिल्लीनगरस्य प्रगतौ स्वमहत्त्वपूर्णं योगदानं ददातु इति तेन शुभाशंसा प्रकटिता।

केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः ईश्वरं प्रार्थितवान् यत् रेखागुप्तायै उत्तमस्वास्थ्यं सुखमयं सफलं च जीवनं जनसेवापरिपूर्णं यशस्विकार्यक्षेत्रं च प्रददातु।

केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः अपि ईश्वरात् तस्याः स्वस्थदीर्घायुषोः प्रार्थनां कृत्वा जन्मदिवसस्य हार्दिकशुभकामनाः प्रदत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani