Enter your Email Address to subscribe to our newsletters


सीएससीत्यस्य 17 तमे स्थापना दिवस समारोहेऽमिलत् सम्मानः, तकनीक आधारिताभ्यः कृषि सेवाभ्यो देशे समग्रे प्रशंसितो नवाचारः
धमतरी, 19 जुलाईमासः (हि.स.)।
छत्तीसगढस्य धमतरीजिले विकसितं पैक्स प्राथमिककृषिसाखसहकारिसमिती आधारितं ड्रोनकृषिसेवामॉडलम् राष्ट्रियस्तरे स्वकीयां विशिष्टां पहचानं प्राप्तवान्। कोलकातानगरे आयोजिते कॉमन सर्विस सेन्टर सीएससी ई गवर्नेन्स सर्विसेज इण्डिया लिमिटेड इत्यस्य सप्तदशे स्थापना दिवससमारोहे धमतरीजिलस्य एतत् अभिनवमॉडलं ग्रामीणक्षेत्रेषु प्रविध्याधारितकृषिसेवायाः प्रभाविविस्तारस्य कृषकेभ्यः आधुनिकसुविधानां प्रदाने च उत्कृष्टदृष्टान्तरूपेण प्रशंसितम्।
कार्यक्रमस्य अन्तर्गतं उत्तमकृषिसेवाप्रदाने पैक्स सशक्तीकरणम् इति विषये आयोजितायां कृषिपरिचर्चायां जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी जयन्त नाहटा आईएएस महोदयेन धमतरीमॉडलस्य भविष्यकार्ययोजनायाश्च विस्तृतं प्रस्तुतीकरणं कृतम्। परिचर्चायां सहकारिता कृषि ड्रोनप्रविधिः एग्रीबिजनेस इत्यादिक्षेत्रैः सम्बद्धाः देशस्य अनेकाः विशेषज्ञाः सहभागित्वा धमतरीमॉडलस्य प्रशंसाम् अकुर्वन्।
जिलस्य पैक्ससमितयः केवलं सहकारिसंस्थारूपेण न स्थाप्यन्ते, अपितु ताः ग्रामीण एकस्थानकृषिसेवाकेन्द्ररूपेण विकसिताः क्रियन्ते, यत्र कृषकेभ्यः आधुनिकप्रविधिः डिजिटलसेवाः विविधसरकारीयोजनानां लाभश्च एकस्मिन्नेव स्थाने प्रदास्यते।
तेन उक्तं यत् जिलस्य दश पैक्ससमितीनां माध्यमेन सम्प्रति ड्रोनप्रविध्या द्रवरूपउर्वरकाणां सिञ्चनकार्यं क्रियते। अनेन कृषकाणां समयस्य श्रमस्य च संरक्षणं भवति तथा उर्वरकाणां वैज्ञानिकसमवितरणमपि सुनिश्चितं भवति।
जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारिणा उक्तं यत् अनेन कृषिक्षेत्रे आधुनिकप्रविधेः उपयोगः वर्धिष्यते, व्ययः न्यूनो भविष्यति, उत्पादनक्षमतायाश्च वृद्धिर्भविष्यति। आगामीचरणे पैक्ससमितीनां माध्यमेन कृषियन्त्रीकरणम्, ड्रोनसेवाः, फसलसर्वेक्षणम्, कृषकपञ्जीकरणम्, डिजिटलसेवाः, बैङ्किङ्गवित्तीयसुविधाः, कृषिपरामर्शः तथा विविधाः कृषकहितैषियोजनाः एकीकृताः भविष्यन्ति। अनेन कृषकाः पृथक्पृथक् कार्यालयानां परिभ्रमणात् मुक्ताः भविष्यन्ति तथा ग्रामस्तरे एव गुणवत्तायुक्ताः सेवाः प्राप्स्यन्ति।
परिचर्चायां विशेषज्ञैः आधुनिककृषिप्रणाली, ड्रोनप्रविधेः वर्धमानः उपयोगः, डिजिटलमाध्यमेन कृषकेभ्यः सेवाप्रदानम्, सहकारिसंस्थानां भूमिका च विस्तरेण चर्चिता। तैः उक्तं यत् ड्रोनप्रविधिः कृषिउत्पादकतां वर्धयति, जलस्य उर्वरकस्य श्रमस्य च कुशलोपयोगं प्रोत्साहयति तथा स्थायिलाभकारीकृषेः मार्गं प्रशस्तं करोति।
समारोहे उत्कृष्टकार्यं कृतवन्तः सीएससी विलेज लेवल एण्टरप्रेन्योर्स वीएलई सम्मानिताः अपि अभवन्।
उल्लेखनीयं यत् गतमासे धमतरीजिलः कृषिक्षेत्रे आधुनिकप्रविधेः उपयोगदिशि ऐतिहासिकां उपलब्धिं प्राप्तवान्। तेन दश प्राथमिककृषिसाखसहकारिसमितिषु पैक्स ड्रोनस्प्रेयरसुविधायाः प्रारम्भः कृतः। अनेन सह धमतरीजिलः देशस्य प्रथमः जिलः अभवत्, यत्र सहकारिसमितीनां माध्यमेन कृषकेभ्यः ड्रोनाधारितकृषिसेवाः प्रदीयन्ते।
लोहरसीसमित्यां आयोजिते कार्यक्रमे प्रशिक्षितैः ड्रोनचालकैः उर्वरकाणां कीटनाशकानां च सूक्ष्मसिञ्चनस्य प्रदर्शनं कृतम्। अनेन समयसंरक्षणम्, व्ययन्यूनता, उत्तमकृषिप्रबन्धनस्य उपयोगिता च प्रत्यक्षतया प्रदर्शिता।
जिलस्य बोडरा, लोहरसी, दोनर, अछोटा, खरेंगा, भोथीडीह, कुण्डेल, गाडाडीह, जुगदेही तथा करेली समितीनां माध्यमेन कृषकेभ्यः आवश्यकतानुसारं ड्रोनसेवाः प्रदीयन्ते। राज्यसर्वकारः केन्द्रसरकारश्च कृष्याः आधुनिकीकरणं प्रोत्साहयितुं कृषकान् नूतनप्रविधिभिः संयोजयितुं च निरन्तरं प्रयत्नशीलौ स्तः।
Hindusthan Samachar / Dheeraj Maithani