Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 जुलाईमासः (हि.स.)।
दिल्लीसरकारः स्वतन्त्रतादिवसस्य अवसरे हर घर तिरंगा २०२६ अभियानं जनभागीदारी देशभक्तिः राष्ट्रियैकताभावना च एताभिः सम्बद्धं कर्तुं सज्जता करोति। अस्मिन् अभियाने दिल्लीस्थिताः स्वसहायतासमूहाः एस एच जी इति प्रसिद्धाः महत्त्वपूर्णसहभागिनः कृताः सन्ति। दिल्लीसर्वकारः पात्रस्वसहायतासमूहानां माध्यमेन प्रायः द्विलक्षं राष्ट्रियध्वजान् निर्मापयिष्यति। एतेषां समूहानां निर्मिताः तिरङ्गध्वजाः अस्मिन् अभियाने उपयुज्यन्ते। सम्पूर्णायां दिल्ल्यां पञ्चदशलक्षाधिकान् राष्ट्रियध्वजान् वितरितुं दिल्लीसरकारस्य लक्ष्यं वर्तते।
मुख्यमन्त्री रेखागुप्ता रविवासरे विज्ञप्तिं प्रकाशितवती यत् हर घर तिरंगा अभियानं केवलं राष्ट्रियध्वजारोहणस्य कार्यक्रमः नास्ति अपितु देशभक्तेः राष्ट्रियैकतायाः जनभागिदार्याश्च भावनां सुदृढां कर्तुमपि एषः अवसरः अस्ति। तया उक्तं यत् दिल्लीसरकारः अस्य अभियानस्य समाजस्य सर्वेषां वर्गाणां सहभागितया सफलतां साधयितुं तथा स्वसहायतासमूहान् आर्थिकरूपेण सशक्तान् कर्तुमपि प्रतिबद्धा अस्ति। मुख्यमन्त्री अवदत् यत् स्वसहायतासमूहान् राष्ट्रियध्वजनिर्माणेन सह सम्बद्धान् कर्तुं कृतः निर्णयः सरकारस्य तस्याः चिन्तनपद्धतेः अङ्गम् अस्ति यस्यां जनकल्याणकारीणाम् अभियानानां सह आजीविकाया अवसराः अपि सम्बध्यन्ते। तया उक्तं यत् राष्ट्रियध्वजनिर्माणे प्रवृत्ताः स्वसहायतासमूहसदस्याः देशस्य गौरवस्य राष्ट्रियैकतायाश्च प्रतीकभूतस्य तिरङ्गस्य निर्माणे प्रत्यक्षं योगदानं दास्यन्ति। अनेन तेभ्यः आर्थिकावकाशाः भविष्यन्ति तथा देशव्यापिनः अभियानस्य अङ्गत्वस्य गौरवमपि प्राप्स्यन्ति।
राज्यशहरीआजीविकामिशन एस यू एल एम दिल्लीसरकारेण चिन्हितानां संगठितानां पात्रस्वसहायतासमूहानां माध्यमेन द्विलक्षं राष्ट्रियध्वजानां निर्माणं भविष्यति। एस यू एल एम शहरीयदरिद्राणाम् आजीविकां सुदृढां कर्तुं स्वसहायतासमूहानां प्रोत्साहनं कौशलविकासम् उद्यमितां स्वरोजगारावकाशान् च प्रदातुं कार्यं करोति। राष्ट्रियध्वजनिर्माणेन एतेभ्यः समूहेभ्यः स्वकीयसामुदायिकसंस्थानां माध्यमेन प्रत्यक्षयोगदानस्य स्थाय्याजीविकावकाशानां सुदृढीकरणस्य च अवसरः भविष्यति।
मुख्यमन्त्री अवदत् यत् सरकारस्य उद्देश्यं विकासं जनभागीदारीं च समं पुरस्कृत्य अग्रे गन्तुम् अस्ति। स्वसहायतासमूहान् हर घर तिरंगा अभियानेन सह सम्बध्य दिल्लीसरकारः सामुदायिकसंस्थानां सुदृढीकरणाय आर्थिकसशक्तीकरणस्य प्रोत्साहनाय नागरिकानां व्यापकसहभागितायाश्च सुनिश्चितीकरणाय महत्त्वपूर्णं पदक्षेपं करोति। सरकारेण स्पष्टं कृतं यत् स्वसहायतासमूहैः निर्मीयमाणाः सर्वे राष्ट्रियध्वजाः भारतीयध्वजसंहिता २००२ तस्याः समये समये कृतानां संशोधनानां राष्ट्रियसम्मानस्य अपमाननिरोधकाधिनियमस्य १९७१ निर्धारितप्राविधिकमानकानां च अनुरूपं निर्मास्यन्ते। अस्य उद्देश्यं प्रत्येकः राष्ट्रियध्वजः तिरङ्गसम्बद्धसम्मानस्य गरिमायाः राष्ट्रियगौरवस्य च अनुरूपः भवेत् इति सुनिश्चितीकरणम् अस्ति।
मुख्यमन्त्री अवदत् यत् दिल्लीसरकारः हर घर तिरंगा २०२६ अभियाने जनभागीदारीं व्यापकतया सम्बद्धां कर्तुम् इच्छति। अतः सम्पूर्णायां दिल्ल्यां सरकारस्य पक्षतः पञ्चदशलक्षाधिकाः तिरङ्गध्वजाः वितरिताः भविष्यन्ति। एतदर्थम् ऑनलाइनविपणिभ्यः अपि तिरङ्गध्वजाः क्रेतुं व्यवस्था कृता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani