टीएमएचमध्ये एडवांस न्यूरोवैस्कुलर उपचारे सीएमई अथ च  हैंड्स -ऑन इत्यत्र कार्यशाला आयाेजिता
पूर्वी सिंहभूमः, 19 जुलाईमासः (हि.स.)। टाटा मेन हॉस्पिटलस्य टीएमएच न्यूरोशल्यचिकित्साविभागस्य पक्षतः उन्नत न्यूरोवैस्कुलरचिकित्साविषये आधारितस्य सततचिकित्साशिक्षणकार्यक्रमस्य सीएमई तथा प्रायोगिककार्यशालायाः आयोजनं रविवासरे अभवत्। “न्यूरोवैस्कुलरव
उद्घाटन टीएमएच की जनरल मैनेजर (मेडिकल सर्विसेज) डॉ. विनिता सिंह ने किया


पूर्वी सिंहभूमः, 19 जुलाईमासः (हि.स.)।

टाटा मेन हॉस्पिटलस्य टीएमएच न्यूरोशल्यचिकित्साविभागस्य पक्षतः उन्नत न्यूरोवैस्कुलरचिकित्साविषये आधारितस्य सततचिकित्साशिक्षणकार्यक्रमस्य सीएमई तथा प्रायोगिककार्यशालायाः आयोजनं रविवासरे अभवत्। “न्यूरोवैस्कुलरविकाराणाम् एण्डोवास्कुलरप्रबन्धनम् एकः व्यावहारिकदृष्टिकोणः” इति विषये आयोजिते अस्मिन् कार्यक्रमे विविधविशेषज्ञतासु कार्यरताः चिकित्सकाः सहभागित्वा आधुनिकन्यूरोइण्टरवेन्शनचिकित्सापद्धतीनां नूतनप्रविधीनां च विषये विस्तृतां संसूचनां प्राप्तवन्तः।

कार्यक्रमस्य उद्घाटनं टीएमएच चिकित्सासेवामहाप्रबन्धका डॉ. विनिता सिंह महोदया अकरोत्। अस्मिन् अवसरे चिकित्सान्तर्वासिसेवाविभागस्य प्रमुखः डॉ. अशोक सुंदर, चिकित्सासहायकसेवाविभागस्य प्रमुखा डॉ. ममता रथ दत्ता, न्यूरोशल्यचिकित्साविभागस्य प्रमुखः डॉ. जीवेश मल्लिक, चिकित्सालयस्य विविधविभागानां प्रमुखाः, वरिष्ठचिकित्सकाः, अध्यापकवर्गीयाः स्वास्थ्यव्यावसायिकाश्च उपस्थिताः आसन्।

कार्यक्रमस्य मुख्यवक्ता नवदेहल्याः प्रख्यातः न्यूरोइण्टरवेन्शनविशेषज्ञः डॉ. पीयूष तोमर आसीत्। तेन व्याख्यानैः प्रायोगिकसत्रैश्च प्रतिभागिनः न्यूरोवैस्कुलररोगाणाम् एण्डोवास्कुलरचिकित्सायां प्रयुज्यमानाभिः अत्याधुनिकाभिः प्रविधिभिः उपकरणैश्च परिचिताः कृताः। विशेषज्ञैः इण्ट्राक्रैनियल एन्यूरिज्म, तीव्र इस्केमिक स्ट्रोक, आर्टेरियोवेनस मैलफॉर्मेशन एवीएम तथा ड्यूरल स्पाइनल आर्टेरियोवेनस फिस्टुला एवीएफ इत्यादीनां गम्भीररोगाणां चिकित्सायाम् एण्डोवास्कुलरहस्तक्षेपस्य वर्धमानोपयोगिता विस्तरेण प्रतिपादिता। सहैव समये रोगपरिचयः, शीघ्रसन्दर्भणम्, बहुविषयकसमन्वयः, प्रमाणाधारितचिकित्सापद्धतिश्च उत्तमपरिणामप्राप्तये अनिवार्याः इति प्रतिपादितम्।

प्रायोगिककार्यशालायां प्रतिभागिभ्यः एण्डोवास्कुलरप्रक्रियासु प्रयुज्यमानानाम् उपकरणानाम्, कैथेटर, गाइडवायर इत्यादीनां सञ्चालनम्, प्रक्रियायाः योजनानिर्माणम्, अनुकरणाधारितप्रशिक्षणं च व्यावहारिकरूपेण प्रदत्तम्। अनेन प्रशिक्षणेन चिकित्सकानां आधुनिकन्यूरोइण्टरवेन्शनप्रविधीनां विषये गहनबोधस्य विकासाय सुअवसरः प्राप्तः।

कार्यक्रमे सप्तत्यधिकाः चिकित्सकाः सततचिकित्साशिक्षणसत्रे सहभागिनः अभवन्, यदा प्रायोगिककार्यशालायां विविधविशेषज्ञताभ्यः आगताः चत्वारिंशत् चिकित्सकाः सम्मिलिताः। चिकित्सालयप्रशासनेन उक्तं यत् एतादृशैः शैक्षणिककार्यक्रमैः टीएमएच चिकित्साशिक्षायाः, विशेषज्ञानां मध्ये ज्ञानविनिमयस्य, भविष्ये च उन्नत एण्डोवास्कुलर न्यूरोइण्टरवेन्शनसेवानां प्रारम्भस्य दिशि निरन्तरं प्रयत्नशीलम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani