उपराज्यपालः कमला नगरे 21तमायां जगन्नाथ रथ यात्रायां सम्मिलितः
नव दिल्ली, 19 जुलाईमासः (हि.स.)। दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंहसन्धू रविवासरे कमलानगरे श्रीगीताभवनपञ्चायतीधर्मशालाट्रस्टेन आयोजिते एकविंशतितमे जगन्नाथरथयात्रामहोत्सवे सहभागित्वम् अकरोत्। अस्मिन् अवसरे तेन भगवान् जगन्नाथः भगवान् बलभद्रः देवी
दिल्ली के उपराज्यपाल तरनजीत सिंह संधू रविवार को कमला नगर में भगवान जगन्नाथ, भगवान बलभद्र और देवी सुभद्रा की  आरती करते हुए


नव दिल्ली, 19 जुलाईमासः (हि.स.)।

दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंहसन्धू रविवासरे कमलानगरे श्रीगीताभवनपञ्चायतीधर्मशालाट्रस्टेन आयोजिते एकविंशतितमे जगन्नाथरथयात्रामहोत्सवे सहभागित्वम् अकरोत्। अस्मिन् अवसरे तेन भगवान् जगन्नाथः भगवान् बलभद्रः देवी सुभद्रा च श्रद्धापूर्वकं पूजिताः आरार्तिक्याः च सम्पन्नाः।

उपराज्यपालः सामाजिकमाध्यमस्य एक्स इत्यस्मिन् स्वीयलेखे उक्तवान् यत् दिल्लीनगरस्य वास्तविकशक्तिः तस्याः समृद्धायां सांस्कृतिकविविधतायां निहिता अस्ति यत्र भारतस्य प्रत्येकप्रदेशस्य परम्पराभ्यः स्वगृहमिव स्थानं लभ्यते तथा ताः समादरेण उत्सवत्वेन आचर्यन्ते। एतादृशाः आयोजनाः एकतायाः सौहार्दस्य अस्माकं सामूहिकसभ्यताविरासतायाः च भावनां सुन्दररूपेण प्रकटीकुर्वन्ति या अस्माकं राजधानीनगरस्य जनान् एकसूत्रे संयोजयति। तेन भगवान्तं जगन्नाथं प्रति सर्वेषां कृते शान्तेः सुखस्य उत्तमस्वास्थ्यस्य समृद्धेश्च प्रार्थना कृता।

---------------

Hindusthan Samachar / Dheeraj Maithani