मध्यप्रदेशः- मुख्यमंत्री तीर्थ दर्शन योजनान्तर्गते अद्य हरिद्वार-ऋषिकेशाभ्यां प्रस्थास्यते विशेषरेलयानम्
बैतूलम्, 19 जुलाईमासः (हि.स.)। मध्यप्रदेशसर्वकारस्य महत्त्वाकाङ्क्षिण्याः मुख्यमन्त्रीतीर्थदर्शनयोजनायाः अन्तर्गतं हरिद्वारऋषिकेशयोः यात्रार्थम् अद्य रविवासरे प्रातः १० वादने बैतूलरेलस्थानकात् विशेषयानं प्रस्थास्यति। एतत् यानं जुलैमासस्य २२ दिनाङ
मुख्यमंत्री तीर्थ दर्शन योजना ट्रेन (फाइल)


बैतूलम्, 19 जुलाईमासः (हि.स.)।

मध्यप्रदेशसर्वकारस्य महत्त्वाकाङ्क्षिण्याः मुख्यमन्त्रीतीर्थदर्शनयोजनायाः अन्तर्गतं हरिद्वारऋषिकेशयोः यात्रार्थम् अद्य रविवासरे प्रातः १० वादने बैतूलरेलस्थानकात् विशेषयानं प्रस्थास्यति। एतत् यानं जुलैमासस्य २२ दिनाङ्के पुनरागमिष्यति।

जनसम्पर्काधिकारी रोमित उईके अवदत् यत् हरिद्वारऋषिकेशयात्रार्थं बैतूलजनपदात् कुलं २६० यात्रिकाः चयनिताः सन्ति। यात्रा बैतूलजनपदतः आरभ्यमाणा अस्ति, अतः यात्रिकाणां सुविधासुरक्षयोः कृते एकस्य चिकित्सकस्य, पञ्च आरक्षकाणां तथा पञ्च अनुरक्षकाणां नियुक्तिः कृता अस्ति। अस्यां यात्रायां बैतूलजनपदस्य अतिरिक्तं नर्मदापुरमसागरजनपदाभ्यां यात्रिकाः अपि सहभागिनः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani