Enter your Email Address to subscribe to our newsletters

- केन्द्रियमन्त्री दुर्गादासः उइके हरितां पताकां प्रदर्शितवान्
बैतूलम्, 19 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य बैतूलजनपदस्य प्रायः 260 श्रद्धालूनां मुख्यमन्त्रितीर्थदर्शनयोजनायाः अन्तर्गतं रविवासरे हरिद्वार-ऋषिकेशयोः चतुर्दिवसीयतीर्थयात्रायै रेलवेस्थानकात् विशेषरेलयानेन प्रस्थानं कारितम्।
केन्द्रियमन्त्री दुर्गादासः उइके-महोदयः वृद्धयात्रिणः पुष्पहारं परिधाप्य आत्मीयं स्वागतं कृतवान्, तेषाम् आशीर्वादं गृहीतवान्, हरितां पताकां प्रदर्श्य च यात्रां प्रस्थापितवान्। अस्मिन् अवसरे जनपदपञ्चायत्युपाध्यक्षः हंसराजः धुर्वे-महोदयः, अपरकलेक्टर् वन्दना-जाट-महोदया, जनपदपञ्चायतस्य अतिरिक्तमुख्यकार्यपालनाधिकारी इन्दिरा-महतो-महोदया इत्यादयः अन्ये अधिकारिणः कर्मचारिणः च उपस्थिताः आसन्।
अस्मिन् अवसरे केन्द्रियमन्त्री उइके-महोदयः अकथयत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणा डॉ. मोहनयादवेन च नेतृत्वे संचालिता मुख्यमन्त्रितीर्थदर्शनयोजना वृद्धानां सम्मानाय तेषाम् आस्थायै च समर्पिता एका महत्त्वपूर्णा पहल अस्ति। सः अकथयत् यत् सम्पूर्णं जीवनं परिवारस्य समाजस्य च सेवां कुर्वताम् वरिष्ठनागरिकाणां कृते पवित्राणां तीर्थस्थलानां दर्शनं कारयितुम् अवसरः दानं सर्वकारस्य संवेदनशीलायाः चिन्तनायाः परिचायकः अस्ति।
सः यात्रिभ्यः यात्राकाले आध्यात्मिकम् अनुभवं प्राप्तुं, देशस्य सांस्कृतिकां विरासतां समीपे ज्ञातुं, प्रदेशस्य देशस्य च सुख-समृद्ध्यर्थं प्रार्थनां कर्तुं च आग्रहं कृतवान्। सः सर्वेभ्यः यात्रिभ्यः सुखदायाः, सुरक्षितायाः, मङ्गलमय्याः च यात्रायाः शुभकामनाः अपि दत्तवान्।
मुख्यमन्त्रितीर्थदर्शनयोजनायाः अन्तर्गतम् इयं हरिद्वार-ऋषिकेशयात्रा 19 जुलाईतः 22 जुलाई 2026 यावत् आयोजिता भवति। यात्रायै बैतूलजनपदात् आहत्य 260 यात्रिणः चयनिताः। यात्रिणां सुविधां सुरक्षां च दृष्टिपथे स्थापयित्वा एकः चिकित्सकः, पञ्च आरक्षकाः, पञ्च अनुरक्षकाः च नियुक्ताः। अस्यां विशेषायां तीर्थयात्रायां बैतूलजनपदेन सह नर्मदापुरम-सागरजनपदयोः श्रद्धालवः अपि सहभागिनः सन्ति।
---------------
Hindusthan Samachar / अंशु गुप्ता