मध्यप्रदेशः-जगदीशपुरे अद्य मंत्रिमंडलीयोपवेशनं, समाननागरिकसंहितायै प्रस्तावाय मेलिष्यति सहमतिः
- मुख्यमंत्रिणा 10.54 लक्ष कृषकेभ्यः अंतरितः करिष्यति 1460.25 कोटिमितः राशिः भोपालम्, 19 जुलाईमासः (हि.स.)। मध्यप्रदेशे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य अध्यक्षतायां अद्य रविवासरे जगदीशपुरे (पूर्वनाम इस्लामनगरम्) मन्त्रिपरिषदः उपवेशनं भविष्यति। अस
सीएम मोहन यादव


- मुख्यमंत्रिणा 10.54 लक्ष कृषकेभ्यः अंतरितः करिष्यति 1460.25 कोटिमितः राशिः

भोपालम्, 19 जुलाईमासः (हि.स.)।

मध्यप्रदेशे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य अध्यक्षतायां अद्य रविवासरे जगदीशपुरे (पूर्वनाम इस्लामनगरम्) मन्त्रिपरिषदः उपवेशनं भविष्यति। अस्मिन् उपवेशने समाननागरिकसंहितायाः (यूसीसी) प्रारूपाय अनुमोदनं प्रदातुं शक्यते। एतदतिरिक्तं मुख्यमन्त्री डॉ. मोहनयादवः जगदीशपुरात् प्रधानमन्त्री फसलबीमायोजनायाः अन्तर्गतं १०.५४ लक्षकृषकाणां वित्तकोषेषु १४६०.२५ कोटिरूप्यकाणि अन्तरयिष्यति। अस्मिन्नेव दिने जगदीशपुरे मन्त्रिपरिषदः औपचारिकम् उपवेशनम् अपि भविष्यति।

जनसम्पर्काधिकारी अवनीशसोमकुअरः शनिवासरे सूचितवान् यत् प्रधानमन्त्री फसलबीमायोजनायाः प्रारम्भात् वर्षपर्यन्तं २०२४–२५ पर्यन्तं प्राकृतिकविपद्भिः प्रभावितेभ्यः कृषकेभ्यः ३०,९४२.३४ कोटिरूप्यकाणां बीमाधनं प्रदत्तम्। प्रधानमन्त्री फसलबीमायोजना भारतसर्वकारस्य महत्त्वाकाङ्क्षिणी महत्त्वपूर्णा च योजना अस्ति। प्राकृतिकविपदां कारणेन सस्यहानिः जायमाना चेत् बीमाधनप्रदानेन कृषकाणां वित्तीयहितसंरक्षणमेव अस्याः योजनायाः प्रमुखोद्देशः अस्ति।

मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् अस्मिन् वर्षे एल्-नीनो-प्रभावात् सम्यक् वर्षाकालस्य सम्भावना न्यूनास्ति। अतः कृषकबान्धवैः अधिसूचितसस्यानां बीमाङ्कनं निर्धारिततिथेः पूर्वमेव करणीयम्, येन उत्पादनहानिः सति वित्तीयसाहाय्यं प्राप्तुं शक्येत। सः अपि अवदत् यत् मध्यप्रदेशसर्वकारः सर्वासु परिस्थितिषु कृषकाणां पक्षे तिष्ठति तथा तेषां हितसंरक्षणाय निरन्तरं कार्यं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani