25 दिसंबरतः शुभारप्स्यते मिशन बसुंधरा 4.0, 3.5 लक्षाय चाय श्रमिकेभ्यो मेलिष्यति भूमि पट्टा
गुवाहाटी, 19 जुलाईमासः (हि.स.)। असमराज्ये मिशन बसुन्धरा ४.० इत्यस्य शुभारम्भः आगामि २५ दिसम्बरदिनाङ्के भविष्यति। एषा सूचना राज्यस्य राजस्वमन्त्री केशवमहन्तः एकस्मिन् कार्यक्रमे सहभागित्वानन्तरं पत्रकारैः सह वार्तालापसमये प्रदत्तवान्। तेन उक्तं य
File photo: Assam Revenue Minister Keshab Mahanta.


गुवाहाटी, 19 जुलाईमासः (हि.स.)।

असमराज्ये मिशन बसुन्धरा ४.० इत्यस्य शुभारम्भः आगामि २५ दिसम्बरदिनाङ्के भविष्यति। एषा सूचना राज्यस्य राजस्वमन्त्री केशवमहन्तः एकस्मिन् कार्यक्रमे सहभागित्वानन्तरं पत्रकारैः सह वार्तालापसमये प्रदत्तवान्।

तेन उक्तं यत् राज्यसरकारः त्रिलक्षपञ्चाशत्सहस्रं चायबागानश्रमिकेभ्यः भूमिपट्टान् प्रदास्यति। मन्त्री अवदत् यत् एषा पहल चायश्रमिकेभ्यः भूम्यधिकारस्य सुनिश्चितीकरणाय तेषां सामाजिकआर्थिकसशक्तीकरणाय च महत्त्वपूर्णं पदक्षेपम् अस्ति।

तेन पुनरुक्तं यत् सरकारः चायश्रमिकेभ्यः भूमिपट्टप्रदाने दृढसंकल्पिता अस्ति। बसुन्धरा २ तथा बसुन्धरा ३ इत्येतयोः अन्तर्गतं अपि चायश्रमिकेभ्यः भूमिपट्टाः प्रदत्ताः आसन्।

------------

Hindusthan Samachar / Dheeraj Maithani