Enter your Email Address to subscribe to our newsletters

नवदेहली, 19 जुलाईमासः (हि.स.)। स्वतन्त्रतासंग्रामस्य अमरसेनानिनः 1857 तमस्य प्रथमस्वतन्त्रतासंग्रामस्य अग्रदूतस्य च मङ्गलपाण्डेयस्य जयन्त्यां रविवासरे लोकसभाध्यक्षः ओम-बिरला, प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः, केन्द्रियगृहसहकारितामन्त्री अमितशाहः, केन्द्रियसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यादयः अनेके नेतारः तस्मै श्रद्धाञ्जलिम् अर्पयन्तः तस्य अदम्यं साहसं, राष्ट्रभक्तिं, बलिदानं च स्मृतवन्तः।
लोकसभाध्यक्षः ओम-बिरला सामाजिकपटले 'एक्स्' इत्यस्मिन् अकथयत् यत् 1857 तमस्य स्वतन्त्रतासंग्रामस्य अमरयोद्धा, अदम्यसाहसस्य देशभक्तेः प्रतीकः च वीरः मङ्गलपाण्डेयः तस्य जयन्त्यां कोटि-कोटिशः नमनम् अर्हति। सः अकथयत् यत् 29 मार्च 1857 तमे दिने बैरकपुर-छावन्यां मङ्गलपाण्डेयस्य साहसेन देशप्रेम्णा च भारतीयेतिहासे एतादृशः निर्णायकः क्षणः रचितः, येन विदेशिशासनस्य आधारः कम्पिता स्वतन्त्रता-आन्दोलनं च नूतनां दिशं प्राप्तवत्। सः अकथयत् यत् तस्य बलिदानम् आगामिषु दशकेषु असंख्यानां क्रान्तिकारिणां कृते प्रेरणायाः स्रोतः अभवत्, अद्यापि च तस्य जीवनं कोटिशः भारतीयेषु राष्ट्रभक्तेः भावनायाः संचारं करोति।
प्रधानमन्त्री नरेन्द्रमोदी मङ्गलपाण्डेयाय श्रद्धाञ्जलिम् अर्पयन् अकथयत् यत् महतः क्रान्तिकारिणः जयन्त्यां तस्मै शत-शतशः नमनम्। प्रधानमन्त्री अकथयत् यत् स्वाभिमानस्य सम्मानस्य च रक्षार्थं तेन स्वसर्वस्वं न्योछावरं कृतम्। तस्य साहसिकजीवने प्रत्येकः भारतीयः गर्वं अनुभवति, राष्ट्रभक्त्या ओतप्रोता तस्य शौर्यगाथा च देशस्य प्रत्येकां सन्ततिं प्रेरयन्ती स्थास्यति।
रक्षामन्त्री राजनाथसिंहः अकथयत् यत् विदेशिशासनस्य विरुद्धं क्रान्त्याः आह्वानं कृत्वा वीरः मङ्गलपाण्डेयः सम्पूर्णे देशे देशभक्तेः ज्वालां जागरितवान् अगणितान् देशवासिनः च मातृभूमेः स्वतन्त्रतार्थं संघर्षं कर्तुं प्रेरितवान्। सः अकथयत् यत् तस्य त्यागः, शौर्यं, राष्ट्रं प्रति अटूटं समर्पणं च सदैव देशवासिनः राष्ट्रसेवायाः राष्ट्रनिर्माणस्य च पथि अग्रे गन्तुं प्रेरयिष्यति।
केन्द्रियगृहसहकारितामन्त्री अमितशाहः स्वसन्देशे अकथयत् यत् क्रान्तिकारिनायकः वीरः मङ्गलपाण्डेयः 1857 तमायाः क्रान्तेः बिगुलं (शङ्खं) फूत्कृत्य देशे जनचेतनायाः संचारं कृतवान्। सः अकथयत् यत् स्वसंस्कृतेः, स्वाभिमानस्य, राष्ट्रियहितानां च रक्षार्थं मङ्गलपाण्डेयेन ब्रिटिश्-शासनस्य विरुद्धं संघर्षः कृतः, भारतमातरं औपनिवेशिकदमनात् अन्यायात् च मुक्तां कर्तुं स्वप्राणानां सर्वोच्चं बलिदानं च दत्तम्। तस्य बलिदानेन प्रज्वलिता क्रान्तेः चिङ्गारी अग्रे गत्वा स्वतन्त्रतायाः प्रचण्डायां ज्वालायां परिवर्तिता।
केन्द्रियसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी अपि वीरस्य मङ्गलपाण्डेयस्य जयन्त्यां तस्मै श्रद्धापूर्वकं नमनं कुर्वन् अकथयत् यत् सः स्वतन्त्रतायाः युद्धस्य अग्रण्येषु योद्धृषु एकः आसीत्, यस्य त्यागः बलिदानं च सदैव देशवासिनः राष्ट्रहिते कार्यं कर्तुं प्रेरयिष्यति।----------------
Hindusthan Samachar / अंशु गुप्ता