संगम नगरीतः आईटी और सिल्क सिटी इत्येतयोर्यात्रा भविष्यति सरलम्
5 अगस्ततश्चलिष्यति प्रयागराज–यशवंतपुर साप्ताहिकं विशिष्टं पर्यटनरेलयानम्, तीर्थाटनस्य दक्षिण भारतस्य च यात्रायै मेलिष्यति नूतनो विकल्पः, 8 पर्यायान्यावच्चलिष्यति विशिष्टं रेलयानम् प्रयागराजः, 19 जुलाईमासः (हि.स.)।यात्रिकाणां सुविधावर्धनाय पर्यटनस
उत्तर मध्य रेलवे के प्रतीकात्मक लोगों का छाया चित्र


5 अगस्ततश्चलिष्यति प्रयागराज–यशवंतपुर साप्ताहिकं विशिष्टं पर्यटनरेलयानम्, तीर्थाटनस्य दक्षिण भारतस्य च यात्रायै मेलिष्यति नूतनो विकल्पः, 8 पर्यायान्यावच्चलिष्यति विशिष्टं रेलयानम्

प्रयागराजः, 19 जुलाईमासः (हि.स.)।यात्रिकाणां सुविधावर्धनाय पर्यटनस्य तीर्थाटनस्य च प्रोत्साहनार्थं रेलप्रशासनेन प्रयागराज यशवंतपुर प्रयागराज साप्ताहिकविशेषयानस्य संचालनस्य निर्णयः कृतः। अस्य विशेषयानस्य प्रारम्भेण संगमनगरी प्रयागराज तथा कर्नाटकस्य राजधानी यशवंतपुरयोः मध्ये यात्रा अधिका सुगमा सुविधाजनका च भविष्यति। तथा च उत्तरदक्षिणभारतीययोः समृद्धसांस्कृतिकपरम्परयोः मध्ये सम्पर्कः अपि अधिकं सुदृढः भविष्यति।

रेलप्रशासनस्य जनसम्पर्काधिकारी अमितमालवीयः रविवासरे उक्तवान् यत् गाडीसंख्या ०४१४९ प्रयागराज यशवंतपुर साप्ताहिकविशेषयानं २०२६ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् आरभ्य सेप्टेम्बरमासस्य २३ दिनाङ्कपर्यन्तं प्रतिवुधवासरे अष्टवारं सञ्चरिष्यति। तथैव गाडीसंख्या ०४१५० यशवंतपुर प्रयागराज साप्ताहिकविशेषयानं २०२६ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्कात् आरभ्य सेप्टेम्बरमासस्य २६ दिनाङ्कपर्यन्तं प्रतिशनिवासरे अष्टवारं सञ्चरिष्यति।

प्रयागराजात् एतत् विशेषयानं सायं षड्वादने प्रस्थास्यति। ततः शङ्करगढ डभौरा मानिकपुर चित्रकूटधाम बांदा महोबा खजुराहो छतरपुर टीकमगढ ललितपुर बीना रानीकमलापति इटारसी नागपुर बल्लारशाह काजीपेट सिकन्दराबाद रायचूर गुंतकल अनन्तपुर धर्मावरम् हिन्दूपुर येलहंका इत्यादिषु बहुषु प्रमुखस्थानेषु विरम्य शुक्रवासरस्य रात्रौ नववादने यशवंतपुरं प्राप्स्यति।

प्रतिगमने एतत् विशेषयानं शनिवासरे प्रातः सप्तवादने यशवंतपुरात् प्रस्थाय सोमवासरे प्रातः षड्वादनार्धे प्रयागराजं प्राप्स्यति। यात्रिकाणां सुविधार्थम् अस्मिन् विशेषयाने समग्रतया त्रयोविंशतिः आईसीएफयानकोष्ठाः स्थापिता भविष्यन्ति। तेषु द्वौ एसएलआर डी कोष्ठौ सप्त सामान्यश्रेणीकोष्ठाः एकादश शयनयानकोष्ठाः द्वौ वातानुकूलिततृतीयश्रेणी एसी ३ कोष्ठौ एकः वातानुकूलितद्वितीयश्रेणी एसी २ कोष्ठश्च भविष्यति।

रेलप्रशासनस्य मते अस्य विशेषयानस्य संचालनात् प्रयागराज चित्रकूट खजुराहो इत्यादीनां धार्मिकपर्यटनस्थलानां तथा यशवंतपुरप्रदेशस्य यात्रिकाणां महती सुविधा भविष्यति। अपरञ्च व्यापारशिक्षारोजगारपर्यटनक्षेत्रेषु अपि अस्य रेलसेवायाः सकारात्मकः लाभः भविष्यतीति अपेक्ष्यते।

उत्तरमध्यरेलस्य जनसम्पर्काधिकारी अमितमालवीयः उक्तवान् यत् यात्रिकाणां वर्धमानाम् अपेक्षां सुविधां च दृष्ट्वा अस्य विशेषयानस्य संचालनं क्रियते। सः सर्वान् यात्रिकान् समये एव आरक्षणं कृत्वा अस्य विशेषरेलसेवायाः लाभं ग्रहीतुं प्रार्थितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani