'वन्दे मातरम्' इत्यस्मै राष्ट्रगानस्य समानं दर्जा दातुं विधेयकं श्वः राज्यसभायां प्रस्तूयते
नवदेहली, 19 जुलाईमासः (हि.स.)।केन्द्रियगृहमन्त्री सोमवासरे राज्यसभायां राष्ट्रगीतं ''वन्दे मातरम्'' इत्यस्मै राष्ट्रगानस्य समानं दर्जा दातुं विधेयकं प्रस्तोष्यति। अस्य अधिनियमस्य अन्तर्गतं राष्ट्रियध्वजस्य संविधानस्य च अपमानः राष्ट्रगाने बाधाकरणं
संसद


नवदेहली, 19 जुलाईमासः (हि.स.)।केन्द्रियगृहमन्त्री सोमवासरे राज्यसभायां राष्ट्रगीतं 'वन्दे मातरम्' इत्यस्मै राष्ट्रगानस्य समानं दर्जा दातुं विधेयकं प्रस्तोष्यति। अस्य अधिनियमस्य अन्तर्गतं राष्ट्रियध्वजस्य संविधानस्य च अपमानः राष्ट्रगाने बाधाकरणं च दण्डनीयः अपराधः भविष्यति।

राज्यसभायाः श्वस्तनायां कार्यसूच्यां अस्य ज्ञानं दत्तम्। विधेयकं 1971 तमस्य राष्ट्रियगौरवापमाननिवारणाधिनियमस्य, 1971, संशोधनं करिष्यति। इदं विधेयकं राष्ट्रगीतं वन्देमातरम् अपि राष्ट्रगानस्य इव सम्मानं दातुम् उद्देश्येन आनीयते। अपमानं कुर्वते त्रयाणां वर्षाणां दण्डस्य प्रावधानम् अस्ति। अस्मिन् गायनसम्बद्धानाम् अनिवार्यतानाम् अपि प्रावधानानि सन्ति।

अपरतः लोकसभायां केन्द्रियविधिमन्त्री अर्जुनरामः मेघवालः उच्चतमन्यायालये न्यायाधीशानां संख्यावर्धनसम्बद्धं विधेयकं प्रस्तोष्यति। अस्य उद्देश्यम् अस्ति देशस्य शीर्षन्यायालये न्यायाधीशानां संख्यां 33 तः 37 कर्तुम्।

संसदः वर्षासत्रं श्वः आरभ्यमाणम् अस्ति। प्रातःकाले प्रधानमन्त्री नरेन्द्रमोदि-महोदयः माध्यमानां समक्षं सर्वेभ्यः दलेभ्यः कार्यवाहीं सुचारु चालयितुम् उद्घोषणां कुर्वन् स्वकीयं वक्तव्यं दास्यति। वर्षासत्रस्य प्रथमे दिने लोकसभायां 'फ़ादर्-अमीर्' इति नाम्ना ज्ञातस्य कतरदेशस्य पूर्वस्य अमीरस्य शेख़-हमद-बिन्-ख़लीफ़ा-अल्-थानी-महोदयस्य श्रद्धाञ्जलिः दास्यते। लोकसभायाः कार्यसूच्यनुसारं षण्णां पूर्वसदस्यानां सहितं तस्मै श्रद्धाञ्जलिः दास्यते।

---------------

Hindusthan Samachar / अंशु गुप्ता