Enter your Email Address to subscribe to our newsletters

शिमला, 19 जुलाईमासः (हि.स.)।
राजधानी शिमलानगरस्य परिचायकत्वेन प्रसिद्धयोः ऐतिहासिकरिजमैदानस्य मॉलरोडस्य च भ्रमणार्थम् आगच्छन्तः पर्यटकाः इदानीं विश्वस्य सप्ताश्चर्याणां झलकम् अपि द्रष्टुं शक्नुवन्ति। नगरस्य लौहकबाडात् निर्मिताः एताः विशालाः कलाकृतयः चरणबद्धरीत्या स्थाप्यन्ते। तासु चतस्रः प्रतिकृतयः स्वस्वनिर्धारितस्थानेषु पूर्वमेव स्थापिताः सन्ति, अवशिष्टानां तिसृणां प्रतिकृतीनां स्थापनकार्यं तु अद्यापि प्रवर्तमानम् अस्ति।
शिमलानगरनिगमस्य कथनानुसारम् अस्मिन्नेव मासे सर्वासां कलाकृतीनां स्थापनकार्यं सम्पन्नं भविष्यति। एतासां प्रतिकृतीनां विशेषता एषा यत् ताः सम्पूर्णतया लौहकबाडेन निर्मिताः सन्ति। अतः तासां भारः अपि अत्यधिकः अस्ति, तासां स्थापनार्थं दृढाधारस्य निर्माणम् आवश्यकम् अभवत्।
नगरस्य प्रसिद्धेषु पर्यटनस्थलेषु अन्यतमे स्कैण्डल्प्वाइण्टस्थले देशस्य एकमात्रस्य आश्चर्यस्य ताजमहलस्य प्रतिकृतिः पूर्वमेव स्थापिता अस्ति। नगरनिगमस्य फाउण्टेनपार्के स्थापितस्य अस्य ताजमहलस्य समीपे जनाः चित्रग्रहणं कुर्वन्ति। एतदतिरिक्तं रानीझांसीपार्के एफिलटावरस्य, गेयटीथियेटरस्य समीपे पीसानगरस्य लीनिङ्गटावरस्य तथा रिजस्य नूतनपरिसरे स्टैच्यू आफ् लिबर्टी इति प्रतिमायाः प्रतिकृतिः अपि स्थाप्यते। एतेषु चतुर्षु स्थानेषु आगच्छतां पर्यटकानां स्थानीयजनानां च दृष्टिः प्रथमं एतासु नूतनकलाकृतिषु एव पतति।
नगरनिगमः इदानीम् अवशिष्टानां त्रीणाम् आश्चर्याणां स्थापनकार्ये संलग्नः अस्ति। रिजस्य नूतनपरिसरे गीजापिरामिडस्य प्रतिकृतिः स्थाप्यते। झांसीपार्कचतुष्पथे मॉलरोडमार्गे क्राइस्टद रिडीमरस्य प्रतिकृतिः स्थापिता भविष्यति। ढलीक्षेत्रस्य नूतनसुरङ्गस्य बहिः निर्मिते चतुष्पथे कोलोसियमस्य स्थापनकार्यं अपि प्रवर्तते। एतेषु सर्वेषु स्थानेषु पूर्वमेव दृढाधारः निर्मितः अस्ति, यतः लौहकबाडनिर्मिताः एताः कलाकृतयः अत्यन्तं गुरुतराः सन्ति, तासां सुरक्षितस्थापनम् अनिवार्यम् अस्ति।
नगरनिगमस्य अनुसारम् एतासां सप्तानां प्रतिकृतीनां निर्माणं दिल्लीनगरे कृतम्। निर्माणे नगरात् सङ्गृहीतस्य लौहकबाडस्य उपयोगः कृतः। पुरातनलौहसामग्रीभ्यः नूतनरूपेण निर्मिताः एताः कलाकृतयः पर्यावरणसंरक्षणस्य सन्देशम् अपि प्रददति। नगरनिगमस्य मतम् अस्ति यत् अनुपयोगिनः इति मन्यमानस्य कबाडस्य एवं प्रकारेण उपयोगः नगराय नूतनम् आकर्षणं प्रदास्यति तथा पुनर्चक्रणभावनाम् अपि प्रोत्साहयिष्यति।
एतासां प्रतिकृतीनां कृते नगरे स्थानानां चयनं पूर्वमेव कृतम् आसीत्। प्रत्येकां कलाकृतिं तादृशेषु स्थानेषु स्थाप्यते यत्र पर्यटकाः सर्वाधिकसंख्यया आगच्छन्ति। नगरनिगमस्य योजना अस्ति यत् एतानि स्थानानि सेल्फीप्वाइण्टरूपेण अपि विकसितानि भविष्यन्ति। आशा अस्ति यत् सप्तसु आश्चर्येषु सर्वेषु स्थापितेषु शिमलानगरम् आगच्छन्तः पर्यटकाः एतेषु स्थानेषु स्थित्वा चित्राणि गृह्णन्तः एताः कलाकृतयः समीपतः अपि अवलोकयिष्यन्ति।
नगरनिगमस्य महापौरः सुरेन्द्रचौहानः अवदत् यत् विश्वस्य सप्ताश्चर्याणाम् एताः प्रतिकृतयः नगरस्य सौन्दर्ये नूतनम् आयामं योजयिष्यन्ति। तेषां कथनानुसारम् एताभिः शिमलानगरम् आगच्छद्भ्यः पर्यटकेभ्यः नूतनम् आकर्षणं प्राप्स्यते। ते अवदन् यत् येषु स्थानेषु कार्यम् अद्यापि अवशिष्टम् अस्ति, तेषु स्थापनकार्यं शीघ्रतया प्रवर्तते तथा अस्मिन्नेव मासे सर्वाणि सप्ताश्चर्याणि स्वस्वनिर्धारितस्थानेषु स्थापयिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani