Enter your Email Address to subscribe to our newsletters

मियामी, 19 जुलाईमासः (हि.स.)।
इङ्ग्लैण्डदेशेन शनिवासरे फीफा विश्वकप २०२६ तृतीयस्थाननिर्णायकस्पर्धायां फ्रान्सदेशं रोमाञ्चकस्पर्धायां ६ ४ इति गोलान्तरैः पराजित्य १९६६ तमे वर्षे विश्वविजेतृत्वप्राप्तेः अनन्तरं विश्वकपे स्वस्य सर्वोत्तमं प्रदर्शनं अभिलेखितम्।
इङ्ग्लैण्डदेशेन प्रथमार्धे एव चत्वारि गोलानि कृत्वा स्पर्धायां दृढं वर्चस्वं स्थापितम्। तथापि द्वितीयार्धे फ्रान्सदेशेन चत्वारि गोलानि कृत्वा प्रभावशालिनी पुनरागमनचेष्टा कृता, किन्तु अन्ते बुकायो साका दण्डप्रहारेण स्वस्य हैट्रिकगोलं कृतवान् तथा जूद बेलिंगहैम विरामकालवृद्धौ गोलं कृत्वा इङ्ग्लैण्डस्य विजयम् सुनिश्चितवान्।
इङ्ग्लैण्डदेशस्य कृते प्रथमार्धे डेक्लान राइस तथा एजरी कॉन्सा अपि गोलं कृत्वा दलाय सुदृढां अग्रतां प्रदत्तवन्तौ।
एम्बाप्पे गोल्डन बूट स्पर्धायां अग्रस्थाने
फ्रान्सदेशस्य नायकः किलियन एम्बाप्पे अस्मिन् स्पर्धायां द्वौ गोलौ कृतवान्। अनेन सह सः अस्मिन् स्पर्धाचक्रे सर्वाधिकानि दश गोलानि कृत्वा गोल्डन बूट स्पर्धायाम् अग्रस्थानम् अधिगतवान्।
एम्बाप्पे विश्वकपस्पर्धासु स्वस्य कुलगोलसंख्यां द्वाविंशतिम् उपनीतवान्। अनेन सः अर्जेन्टीनादेशस्य विख्यातं क्रीडकं लियोनेल मेसी यस्य एकविंशतिः गोलाः सन्ति तम् अतिक्रम्य विश्वकपइतिहासे सर्वाधिकगोलकर्तृणां सूचीषु अग्रतां प्राप्तवान्।
ओलीसे पेलेस्य अभिलेखम् अतिवर्तितवान्
फ्रान्सदेशस्य कृते ब्रैडली बारकोला तथा उस्मान डेम्बेले अपि गोलौ कृतवन्तौ, यदा माइकल ओलीसे एम्बाप्पे कृतयोः उभयोः गोलयोः साहाय्यं कृतवान्।
एताभ्यां द्वाभ्याम् असिस्टाभ्यां सह ओलीसे अस्मिन् विश्वकपे कुलं सप्त असिस्टानि अभिलेखितवान्। अनेन सः एकस्मिन् विश्वकपसंस्करणे सर्वाधिकासिस्टकर्तुः पेले इत्यस्य अभिलेखम् अतिवर्तितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani