तारापीठ मंदिरे प्रथमअगस्ततः प्रवर्तिष्यते नूतननियमः
बीरभूमः, 19 जुलाईमासः (हि. स.)।तारापीठमन्दिरे श्रद्धालूनां सुविधायै सुरक्षायै मन्दिरव्यवस्थायाः अधिकसुव्यवस्थितीकरणाय च तारामातासेवायतसङ्घेन आगामि एकागस्तदिनाङ्कात् मन्दिरस्य नूतननियमावल्याः प्रवर्तनस्य घोषणा कृता। मन्दिरप्रशासनेन प्रकाशितसूचनानुसा
तारापीठ मंदिर का फाइल फोटो


बीरभूमः, 19 जुलाईमासः (हि. स.)।तारापीठमन्दिरे श्रद्धालूनां सुविधायै सुरक्षायै मन्दिरव्यवस्थायाः अधिकसुव्यवस्थितीकरणाय च तारामातासेवायतसङ्घेन आगामि एकागस्तदिनाङ्कात् मन्दिरस्य नूतननियमावल्याः प्रवर्तनस्य घोषणा कृता। मन्दिरप्रशासनेन प्रकाशितसूचनानुसारं दर्शनपूजाभोगारत्यादीनां समयेषु परिवर्तनं कृतम्। तेन सह गर्भगृहे चलदूरभाषयन्त्रस्य प्रवेशः सम्पूर्णतया निषिद्धः कृतः।

नूतनव्यवस्थानुसारं मन्दिरं प्रतिदिनं प्रातः त्रिवादने उद्घाटितं भविष्यति। श्रद्धालूनां कृते प्रातः पञ्चवादनार्धात् पूजादर्शनयोः आरम्भः भविष्यति। मध्याह्ने द्वादशवादनत्रिंशन्मिनिटे गर्भगृहं पिधास्यते तथा मध्याह्ने एकवादनपर्यन्तं मातुः भोगः समर्पयिष्यते। ततः परं मध्याह्ने एकवादनत्रिंशन्मिनिटात् पुनः दर्शनस्य आरम्भः भविष्यति।

सायं षड्वादने आरत्यर्थं गर्भगृहस्य द्वारं पिहितं भविष्यति। आरत्यनन्तरं सायं सप्तवादनत्रिंशन्मिनिटात् पुनः पूजादर्शनयोः आरम्भः भविष्यति। रात्रौ दशवादने मन्दिरपरिसरस्य सर्वाणि प्रवेशद्वाराणि पिधास्यन्ते।

मन्दिरप्रशासनेन स्पष्टीकृतं यत् गर्भगृहे चलदूरभाषयन्त्रस्य प्रवेशः सर्वथा निषिद्धः भविष्यति। श्रद्धालुभिः गर्भगृहप्रवेशात् पूर्वं स्वीयं चलदूरभाषयन्त्रं निर्धारितस्थाने निक्षेपणीयम्। गर्भगृहे शृङ्गारपूजायाः अनुमतिः न भविष्यति तथा पूजासमये ढाकवादकानां क्षेत्रे श्रद्धालूनां प्रवेशोऽपि निषिद्धः भविष्यति।

एतदतिरिक्तं मातुः भोगसमर्पणात् पूर्वं मन्दिरपरिसरे भोगग्रहणस्य तथा मन्दिरात् बहिः भोगनयनस्य अनुमतिः न भविष्यति। दर्शनव्यवस्थां सुचारुरूपेण सञ्चालयितुं सामान्यपङ्क्त्यै वी आई पी पङ्क्त्यै प्रोटोकॉलपङ्क्त्यै च पृथक् पृथक् समयाः निर्धारिताः सन्ति।

तारामातासेवायतसङ्घेन सर्वेभ्यः श्रद्धालुभ्यः नूतननियमावल्याः पालनस्य अनुरोधः कृतः यथा मन्दिरे दर्शनपूजयोः व्यवस्था शान्तिपूर्णा सुरक्षिती सुव्यवस्थिता च रूपेण सञ्चालितुं शक्येत।

---------------

Hindusthan Samachar / Dheeraj Maithani