विक्रम-1 आंदोलनस्य सफलतायां टीडीबीद्वारा स्काईरूट एयरोस्पेसगणाय वर्धापनानि दत्तानि, बोधिता निजी अंतरिक्ष क्षेत्राय ऐतिहासिक उपलब्धिः
नवदिल्ली, 19 जुलाईमासः (हि.स.)। विज्ञानप्रौद्योगिकीविभागस्य (डीएसटी) प्रौद्योगिकीविकासमण्डलेन (टीडीबी) विक्रम१ अभियानस्य सफलप्रक्षेपणावसरे स्काईरूट् एयरोस्पेस् प्राइवेट् लिमिटेड् संस्थायै अभिनन्दनं प्रदत्तम्। मण्डलेन उक्तं यत् एषा सिद्धिः भारतस्य न
राष्ट्रीय प्रौद्योगिकी दिवस 2022 के अवसर पर केंद्रीय मंत्री डॉ. जितेंद्र सिंह स्काईरूट एयरोस्पेस को राष्ट्रीय प्रौद्योगिकी स्टार्टअप पुरस्कार-2022 प्रदान करते हुए (फाइल फोटो)।


नवदिल्ली, 19 जुलाईमासः (हि.स.)। विज्ञानप्रौद्योगिकीविभागस्य (डीएसटी) प्रौद्योगिकीविकासमण्डलेन (टीडीबी) विक्रम१ अभियानस्य सफलप्रक्षेपणावसरे स्काईरूट् एयरोस्पेस् प्राइवेट् लिमिटेड् संस्थायै अभिनन्दनं प्रदत्तम्। मण्डलेन उक्तं यत् एषा सिद्धिः भारतस्य निजी अन्तरिक्षक्षेत्रस्य कृते ऐतिहासिकी उपलब्धिः अस्ति। अनया सफलतया स्वदेशीयान्तरिक्षप्रौद्योगिकीक्षेत्रे भारतस्य वैश्विकपरिचयः नवाचारक्षमता च अधिकं सुदृढा अभवत्।

टीडीबी स्ववक्तव्ये उक्तवान् यत् स्काईरूट् एयरोस्पेस् संस्थायाः एषा उपलब्धिः स्वदेशीयप्रौद्योगिकीनां परिचयप्रदाने, प्रोत्साहने, व्यावसायीकरणे च महत्त्वपूर्णः मीलस्तम्भः सिद्धा जाता। मण्डलेन वर्षे २०२२ तमे राष्ट्रीयप्रौद्योगिकीदिवसस्य अवसरे स्काईरूट् एयरोस्पेस् संस्थां स्वदेशीयप्रक्षेपणयानप्रौद्योगिकीविकासाय राष्ट्रीयप्रौद्योगिकीस्टार्टअपपुरस्कारेण सम्मानितवती। तस्मिन् समये केन्द्रीयविज्ञानप्रौद्योगिकीराज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः एतत् पुरस्कारं प्रदत्तवान्। लघूपग्रहप्रक्षेपणबाजारस्य कृते स्वदेशीयक्रायोजेनिक्, लिक्विड्, सॉलिड् प्रोपल्शनप्रौद्योगिकीनां विकासे उल्लेखनीययोगदानाय स्काईरूट् संस्था सम्मानिता आसीत्। टीडीबी उक्तवान् यत् विक्रम१ अभियानस्य सफलता अस्याः तथ्यस्य प्रमाणम् अस्ति यत् प्रारम्भिकावस्थायामेव सम्भावनायुक्तानां भारतीयस्टार्टअपसंस्थानां परिचयः प्रोत्साहनं च दीर्घकालिकान् सकारात्मकपरिणामान् जनयतः।

प्रौद्योगिकीविकासमण्डलस्य सचिवः राजेशकुमारपाठकः उक्तवान् यत् स्काईरूट् एयरोस्पेस् संस्थायाः सफलता सम्पूर्णदेशस्य कृते गौरवस्य विषयः अस्ति। राष्ट्रीयप्रौद्योगिकीस्टार्टअपपुरस्कारप्राप्तात् उदयोन्मुखस्टार्टअपसंस्थातः आरभ्य भारतस्य निजी अन्तरिक्षकार्यक्रमे ऐतिहासिकीं उपलब्धिं प्राप्तुं यावत् तस्याः यात्रा देशस्य सुदृढं नवाचारपरितन्त्रं प्रदर्शयति। तेन उक्तं यत् स्काईरूट् एयरोस्पेस् संस्थया अनुसंधानविकासनवाचारनिधेः (आरडीआई) अन्तर्गतं टीडीबी प्रति प्रस्तावः समर्पितः अस्ति, सः सम्प्रति विचाराधीनः अस्ति।

मण्डलेन उक्तं यत् तत् एयरोस्पेस्, रक्षा, स्वास्थ्य, स्वच्छऊर्जा, जैवप्रौद्योगिकी, उन्नतविनिर्माणम्, डिजिटलप्रौद्योगिकी च इत्यादिषु रणनीतिकक्षेत्रेषु स्वदेशीयप्रौद्योगिकीनां विकासं, व्यावसायीकरणं, नवाचाराधारितोद्यमानां प्रोत्साहनं च निरन्तरं करोति। स्काईरूट् एयरोस्पेस् संस्थायाः सफलता अस्याः तथ्यस्य प्रमाणम् अस्ति यत् समयोचितसंस्थागतपरिचयः, नीतिसमर्थनं, निरन्तरसहयोगश्च प्राप्यमाणे सति भारतीयनवाचाराधारितोद्यमाः वैश्विकस्तरे नूतनाः उपलब्धीः प्राप्तुं समर्थाः भवन्ति।---------------

Hindusthan Samachar / Dheeraj Maithani