मंत्री अरविंद शर्मा सम्मार्जनीम् उपयुज्य 76 दिवसीयस्य वार्ड प्रवास कार्यक्रमस्याकरोत् शुभारंभम्
वाराणसी, 19 जुलाईमासः (हि. स.)।वाराणस्यां रविवासरे सूरजकुण्डवार्डे नगरविकास ऊर्जामन्त्री अरविन्द कुमार शर्मा महोदयेन षट्सप्ततिदिवसीय वार्डप्रवासकार्यक्रमस्य शुभारम्भः कृतः। वाराणसीदक्षिणविधानसभाक्षेत्रे विधायकस्य डॉ. नीलकण्ठ तिवारी महोदयस्य योजनानु
वार्ड प्रवास कार्यक्रम में झाड़ू लगाते मंत्री एके शर्मा


वाराणसी, 19 जुलाईमासः (हि. स.)।वाराणस्यां रविवासरे सूरजकुण्डवार्डे नगरविकास ऊर्जामन्त्री अरविन्द कुमार शर्मा महोदयेन षट्सप्ततिदिवसीय वार्डप्रवासकार्यक्रमस्य शुभारम्भः कृतः। वाराणसीदक्षिणविधानसभाक्षेत्रे विधायकस्य डॉ. नीलकण्ठ तिवारी महोदयस्य योजनानुसारं आयोजितस्य षट्सप्ततिदिवसीय वार्डप्रवासकार्यक्रमस्य उद्घाटनावसरे मुख्यातिथिरूपेण उपस्थितः मन्त्री अरविन्द कुमार शर्मा स्वयम् मार्जनीम् आदाय मार्गसम्मार्जनं कृतवान् तथा स्थानीयजनान् स्वच्छतायाः सन्देशं प्रदत्तवान्।

वार्डप्रवासकार्यक्रमस्य शुभारम्भावसरे बहुसंख्यया उपस्थितानां भारतीयजनतापक्षकार्यकर्तृणां मध्ये मन्त्री अरविन्द कुमार शर्मा उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी जनजनं स्वच्छताकार्ये संयोजयितुं मार्जनीग्रहणस्य यत् कार्यम् आरब्धवान्, तदेव अग्रे नयन्तः वयं स्वच्छताकार्ये निरन्तरं संलग्नाः स्मः। अद्य वैश्विकपटलस्य उपरि वाराणस्याः परिवर्तिता छविः दृश्यते, तस्य प्रमुखकारणेषु अत्र विद्यमानं स्वच्छं वातावरणमपि एकम् अस्ति।

विधायकः डॉ. नीलकण्ठ तिवारी उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनः प्रेरणया मुख्यमन्त्रिणः योगी आदित्यनाथस्य मार्गदर्शनेन च विगतवर्षेषु इव अस्मिन् वर्षे अपि दक्षिणविधानसभाक्षेत्रे षट्सप्ततिदिवसीय वार्डप्रवासकार्यक्रमः अद्य प्रारब्धः। कार्यक्रमे उपस्थितेन मुख्यातिथिना मन्त्री अरविन्द कुमार शर्मा महोदयेन अस्य कार्यक्रमस्य शुभारम्भः कृतः। आगामिदिनेषु प्रतिदिनम् एकस्मिन् वार्डे स्थानीयजनैः भारतीयजनतापक्षस्य कार्यकर्तृभिश्च सह स्वच्छताकार्यं क्रियमाणं भविष्यति।

अस्मिन् अवसरे भारतीयजनतापक्षस्य विभिन्नवार्डेभ्यः आगताः पार्षदाः, पक्षनेत्री साधना वेदान्ती, अशोक यादव, अङ्कुर महरोत्रा तथा नगरनिगमस्य कर्मिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani