Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 19 जुलाईमासः(हि. स.)।उत्तराखण्डतः गुजरातराज्यस्य सोमनाथधाम प्रति प्रस्थितस्य सोमनाथस्वाभिमानपर्वयात्रायाः श्रद्धालूनां दलं रविवासरे प्रातः हर्रावालारेलस्थानकम् आगच्छत्। अनेन सह अनेकदिनपर्यन्तं प्रवृत्ता धार्मिकसांस्कृतिकयात्रा समापिता।
यात्रातः प्रत्यागताः अधिकांशाः श्रद्धालवः हर्रावालात् हरिद्वाररेलस्थानकम् आगच्छन्, यतः कुमाऊँगढवालमण्डलयोः विभिन्नपर्वतीयजनपदेषु तथा हरिद्वारजनपदे निवसन्तः यात्रिकाः स्वस्वगन्तव्यस्थानानि प्रति प्रस्थिताः। पतञ्जलिः, गायत्रीतीर्थशान्तिकुञ्जः तथा परमार्थनिकेतनसम्बद्धाः तीर्थयात्रिणः अपि हरिद्वारात् स्वस्वगन्तव्यस्थानानि प्रति प्रस्थितवन्तः।
श्रद्धालवः अकथयन् यत् यात्रायाः समये तेभ्यः सोमनाथमन्दिरस्य, राममन्दिरस्य, गीतामन्दिरस्य श्रीगोलोकधामतीर्थस्य, बाणगङ्गायाः, भालकातीर्थस्य, त्रिवेणीसङ्गमस्य तथा सोमनाथसङ्ग्रहालयस्य सहितं विविधधार्मिकऐतिहासिकस्थलानां दर्शनस्य अवसरः प्राप्तः। हरेलापर्वणः अवसरे श्रद्धालुभिः शारदापीठपरिसरे पौधरोपणम् अपि कृतम्।
श्रद्धालवः यात्रायाः सफलाय आयोजनाय गुजरातराज्यसर्वकारस्य तथा उत्तराखण्डसर्वकारस्य संस्कृतिविभागस्य प्रति आभारम् अभिव्यज्य अवदन् यत् अस्याः यात्रायाः अङ्गत्वेन सहभागिता तेषां कृते अविस्मरणीया आध्यात्मिकदृष्ट्या च अत्यन्तं सन्तोषप्रदा अनुभूतिः आसीत्। ते अवदन् यत् सोमनाथस्वाभिमानपर्वयात्रया तेभ्यः असीमा शान्तिः, सन्तोषः तथा सांस्कृतिकैकात्म्यस्य अनुभूतिः प्राप्ता।
उत्तराखण्डतः जुलैमासस्य १३ दिनाङ्के मध्याह्ने मुख्यमन्त्री पुष्करसिंहधामी महोदयेन हर्रावालारेलस्थानकात् प्रायः ७०० यात्रिकाणां दलं प्रस्थितम्। सोमनाथस्वाभिमानपर्वविशेषरेलयात्रा रविवासरे प्रातः हर्रावालाम् आगत्य सम्पन्ना अभवत्। यात्रायाः समये श्रद्धालुभिः सोमनाथसहितं विविधधार्मिकस्थलानां दर्शनं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani