पर्यावरण संरक्षणस्य संकल्पमाधृत्य द्वारकाधीश मंदिरे जातं पादपरोपणम्
औरैया, 19 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य औरैयाजनपदे समाजसेविसंस्थया एक विचित्र पहल सेवा समिति इत्यनया संचाल्यमाने जीवनधारा पौधारोपण अभियान ५१०० इत्यस्य अन्तर्गतं रविवासरे प्रातःकाले प्रार्थना नर्सिंग होम समीपे स्थिते द्वारकाधीशमन्दिरपरिसरे विव
पौधा रोपड़ करते हुए समाज सेवी संगठन के लोग


औरैया, 19 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य औरैयाजनपदे समाजसेविसंस्थया एक विचित्र पहल सेवा समिति इत्यनया संचाल्यमाने जीवनधारा पौधारोपण अभियान ५१०० इत्यस्य अन्तर्गतं रविवासरे प्रातःकाले प्रार्थना नर्सिंग होम समीपे स्थिते द्वारकाधीशमन्दिरपरिसरे विविधप्रजातीनां पौधानां रोपणं कृतम्। अभियानस्य अन्तर्गतं रोपितानां पौधानां परिपालनसंरक्षणयोः उत्तरदायित्वं मन्दिरस्य सेवादारेभ्यः समर्पितम्।

पौधारोपणानन्तरम् आयोजितायां पर्यावरणगोष्ठ्यां समितेः संस्थापकः आनन्दनाथगुप्तः एडवोकेट् अवदत् यत् वृक्षलतादयः प्रतिकूलपरिस्थितिष्वपि स्मितपूर्वकं जीवनयापनस्य प्रेरणां प्रयच्छन्ति तथा च मानवजीवनाय तेषां महत्त्वं सर्वोपरि वर्तते। तेन उक्तं यत् पर्यावरणसंरक्षणाय यथाशक्ति अधिकाधिकं पौधारोपणं तेषां नियमितपरिपालनं च अत्यावश्यकम्। समिति नगरेषु ग्रामेषु च स्थितेषु मन्दिरेषु मस्जिदेषु गुरुद्वारेषु सार्वजनिकस्थलेषु उद्यानेषु मार्गेषु च प्राणवायुप्रदायिनां दीर्घायुषां पौधानां रोपणं करोति। तथा च जनेभ्यः तेषामभिलषिताः पौधाः निःशुल्करूपेण अपि प्रदीयन्ते।

मन्दिरपरिसरे मधुकामिनी मालतीबेला हरसिङ्गारः बेलपत्रम् चान्दनी गुडहलः अशोकः चितवनः कदमः इत्यादयः अनेकाः पौधाः रोपिताः। गोष्ठ्याः समापनसमये उपस्थितैः अधिकाधिकं पौधारोपणं कर्तुं पर्यावरणसंरक्षणविषये जनजागरणं च प्रवर्तयितुं संकल्पः कृतः।

अस्मिन् अवसरे धर्मनारायणअग्रवालः लोली अञ्जूअग्रवालः डा उपेन्द्रनाथमिश्रः मनीषपुरवारः हीरू तेजबहादुरवर्मा राकेशगुप्तः रामआसरेगुप्तः सन्तोषपोरवालः अनिलकुमारसोनी सन्तोषकुशवाहा शिवपालः राजीवपोरवालः रानू आनन्दनाथगुप्तः एडवोकेट् सतीशकुमारः तथा अन्ये बहवः जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani