उत्तर प्रदेशे ब्लॉक विकासखंडप्रमुखस्य प्रशासकः, आदेशो निर्गतः
लखनऊ, 19 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य योगिसरकारेण ग्रामप्रधानानां जिलापञ्चायताध्यक्षानां च सदृशं विकासखण्डप्रमुखाः अपि प्रशासकत्वेन नियुक्ताः। अस्य सम्बन्धे रविवासरे सर्वेषां ८२६ विकासखण्डप्रमुखाणां प्रशासकत्वेन नियुक्त्यादेशः अपि निर्गतः।
मुख्यमंत्री योगी ने  उत्तर प्रदेश राज्य आपदा प्रबंधन प्राधिकरण मुख्यालय के नवीन भवन का लोकार्पण किया;


मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 19 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य योगिसरकारेण ग्रामप्रधानानां जिलापञ्चायताध्यक्षानां च सदृशं विकासखण्डप्रमुखाः अपि प्रशासकत्वेन नियुक्ताः। अस्य सम्बन्धे रविवासरे सर्वेषां ८२६ विकासखण्डप्रमुखाणां प्रशासकत्वेन नियुक्त्यादेशः अपि निर्गतः।

प्रदेशे एतत् प्रथमवारं यत् सरकारेण जिलापञ्चायताध्यक्षाः, विकासखण्डप्रमुखाः, ग्रामप्रधानाश्च प्रशासकत्वेन नियुक्ताः। पञ्चायतीराजविभागस्य अनुसारं विकासखण्डप्रमुखाणां प्रथमा उपवेशनं २० जुलै २०२१ तमे दिने अभवत्। अतः रविवासरे तेषां पञ्चवर्षीयः कार्यकालः समाप्तिं गच्छति।

प्रशासकाः केवलं सामान्यनियतकार्याण्येव सम्पादयिष्यन्ति

निर्गतादेशानुसारं प्रशासकत्वेन नियुक्ताः विकासखण्डप्रमुखाः केवलं सामान्यनियतकार्याण्येव सम्पादयिष्यन्ति, किमपि नीतिगतनिर्णयं न करिष्यन्ति। यदि कश्चन नीतिगतविषयः समुपस्थास्यति, तर्हि क्षेत्रपञ्चायत्सम्बद्धः प्रस्तावः स्वजिलस्य जिलाधिकारिणः माध्यमेन शासनाय प्रेषयिष्यते। एवं नीतिगतप्रस्तावेषु शासनस्तरे एव अन्तिमानुमोदनं प्रदास्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani