जनसंवादे मंत्रिमंडलीय मंत्री आशीष पटेलः अशृणोज्जनसमस्याः
- अधिकारिभ्यो दत्तवान् त्वरित निस्तारणस्य निर्देशान् मीरजापुरम्, 19 जुलाईमासः (हि.स.)। अपनादलस्य एस इत्यस्य राष्ट्रियोपाध्यक्षः उत्तरप्रदेशशासनस्य प्राविधिकशिक्षा तथा उपभोक्तृसंरक्षणविभागस्य मन्त्रिमण्डलीयमन्त्री आशीषपटेलः रविवासरे सरदारपटेलचतु
लोगों की समस्याएं सुनते कैबिनेट मंत्री आशीष पटेल।


- अधिकारिभ्यो दत्तवान् त्वरित निस्तारणस्य निर्देशान्

मीरजापुरम्, 19 जुलाईमासः (हि.स.)।

अपनादलस्य एस इत्यस्य राष्ट्रियोपाध्यक्षः उत्तरप्रदेशशासनस्य प्राविधिकशिक्षा तथा उपभोक्तृसंरक्षणविभागस्य मन्त्रिमण्डलीयमन्त्री आशीषपटेलः रविवासरे सरदारपटेलचतुष्पथे स्थिते सांसदजनसम्पर्ककार्यालये आयोजिते जनसंवादकार्यक्रमे जनानां समस्याः अशृणोत्। अस्मिन् अवसरे जनपदस्य विभिन्नप्रदेशेभ्यः आगताः नागरिकाः, एनडीए इत्यस्य पदाधिकारीणः कार्यकर्तारश्च स्वस्वसमस्याः मन्त्रिणः पुरतः प्रस्तुतवन्तः।

जनसंवादकार्यक्रमे विद्युत्सेवायाः, शिक्षायाः, स्वास्थ्यस्य, निवृत्तिवेतनस्य तथा विभिन्नविभागसम्बद्धविषयेषु मन्त्रिणा सम्बन्धितैः अधिकारिभिः दूरभाषमाध्यमेन संवादः कृतः तथा च प्राप्तानां परिवादानां शीघ्रं गुणवत्तापूर्णं च निराकरणं कर्तुम् निर्देशाः प्रदत्ताः। तेन अधिकारिणः प्रति उक्तं यत् जनसमस्यानां समाधाने कापि प्रमादशीलता न भवेत् तथा च पात्रजनानां कृते शासनस्य योजनानां लाभः समयबद्धरूपेण उपलब्धः क्रियताम्।

मन्त्रिमण्डलीयमन्त्री आशीषपटेलः अवदत् यत् जनसेवा एव जनप्रतिनिधेः परमं दायित्वम् अस्ति। सः उक्तवान् यत् प्रत्येकस्य जनस्य समस्यायाः समाधानं तस्य सर्वोच्चप्राथमिकता अस्ति तथा च शासनस्य अभिप्रायानुसारम् आमजनानां कृते त्वरितन्यायः आवश्यकसुविधाश्च सुनिश्चिताः भविष्यन्ति।

सः कार्यक्रमे समुपस्थितानां जनानाम् आभारं व्यक्तीकृत्य अवदत् यत् जनविश्वासः जनसहयोगश्च एव तस्य महत्तमा सम्पत्तिः अस्ति। शासनं जनहितसम्बद्धेषु सर्वेषु विषयेṣu पूर्णसंवेदनशीलतया कार्यं करोति।

बहुसंख्यया उपस्थिताः प्रार्थिनः

जनसंवादकार्यक्रमे बहुसंख्यया सामान्यजनाः, एनडीए इत्यस्य पदाधिकारीणः, कार्यकर्तारः, शुभचिन्तकाश्च उपस्थिताः आसन्। जनैः स्वसमस्यासम्बद्धानि प्रार्थनापत्राणि मन्त्रिणे समर्पितानि, तेषां निराकरणार्थं सम्बन्धिताधिकारिभ्यः आवश्यकनिर्देशाः प्रदत्ताः।

---------------

Hindusthan Samachar / Dheeraj Maithani