मुख्यमंत्री योगी आदित्यनाथः 23 जुलाई तमे दिनांके गोरखपुरस्य प्राक् सिक्सलेन फ्लाईओवर इत्यस्य करिष्यति लोकार्पणम्
-2.6 किमीमितस्य लंबस्य फ्लाई ओवर इत्यस्य सेतोर्निर्माणे आ गतः 429 कोटिरुप्यकेभ्योऽधिकस्य व्ययः गोरखपुरम्, 19 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः २३ जुलै दिने पूर्वाह्णे १० वादने गोरखपुरस्य प्रथमस्य षट्पथीयस्य उड्डयनसेतोः लोकार्पणं कर
23 जुलाई को मुख्यमंत्री योगी आदित्यनाथ टीपीनगर–पैडलेगंज फ्लाईओवर का करेंगे लोकार्पण।


मुख्यमंत्री योगी ने  उत्तर प्रदेश राज्य आपदा प्रबंधन प्राधिकरण मुख्यालय के नवीन भवन का लोकार्पण किया;


-2.6 किमीमितस्य लंबस्य फ्लाई ओवर इत्यस्य सेतोर्निर्माणे आ गतः 429 कोटिरुप्यकेभ्योऽधिकस्य व्ययः

गोरखपुरम्, 19 जुलाईमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः २३ जुलै दिने पूर्वाह्णे १० वादने गोरखपुरस्य प्रथमस्य षट्पथीयस्य उड्डयनसेतोः लोकार्पणं करिष्यति। ४२९ कोटि रूप्यकाणां व्ययेन एषः षट्पथीयः उड्डयनसेतुः निर्मितः अस्ति।

गोरखपुरस्य प्रथमः षट्पथीयः उड्डयनसेतुः दृढमार्गसंयोजनस्य आवागमनसौकर्यस्य च अभिवृद्धये मुख्यमन्त्रिणः योगी आदित्यनाथस्य स्वप्नपरियोजनासु अन्यतमः अस्ति। टीपीनगर पैडलेगञ्ज मार्गे २.६५८ किलोमीटरपरिमितस्य अस्य उड्डयनसेतोः निर्माणे ४२९.४९ कोटि रूप्यकाणां व्ययः अभवत्। कार्यदायिसंस्थायाः उत्तरप्रदेशसेतुनिगमस्य महाप्रबन्धकः मिथिलेश कुमारः अवदत् यत् टीपीनगरचतुष्पथात् देवरियाबाइपासत्रिपथेन पैडलेगञ्जदिशं यावत् षट्पथीयस्य उड्डयनसेतोः निर्माणम् तथा च अतिरिक्तचतुःपथेन देवरियाबाइपासमार्गस्य संयोजनार्थं उड्डयनसेतोः निर्माणकार्यं सम्पूर्णम् अभवत्।

अनेकजनपदानां संयोजनस्य प्रवेशद्वारम् अस्ति नौसढ टीपीनगर पैडलेगञ्ज मार्गः

उल्लेखनीयम् अस्ति यत् लखनऊ गोरखपुर राष्ट्रीयमार्गः एनएच २८ तथा वाराणसी प्रयागराज गोरखपुर राष्ट्रीयमार्गात् आगच्छन्तः वाहनाः नौसढत्रिपथेन गोरखपुरनगरं प्रविशन्ति। नौसढत्रिपथात् गोरखपुरनगरस्य अन्तर्भागस्य मार्गः टीपीनगर रुस्तमपुर देवरियाबाइपास पैडलेगञ्ज इत्येतैः मार्गैः सिद्धार्थनगरजनपदं महाराजगञ्जजनपदं च गच्छति तथा मित्रराष्ट्रं नेपालम् अपि प्राप्नोति। अपरतः देवरियाजनपदं कुशीनगरजनपदं च अतिक्रम्य बिहारराज्यं गच्छति। नौसढत्रिपथात् पैडलेगञ्जचतुष्पथपर्यन्तः मार्गः षट्पथरूपेण परिवर्तितः अस्ति। नौसढत्रिपथात् परं पैडलेगञ्जपर्यन्ते टीपीनगर महेवाफलमण्डी रुस्तमपुरढाला इत्यादीनि घनजनसङ्कुलप्रदेशाः बहूनि वाणिज्यप्रतिष्ठानानि च सन्ति। अतः अस्मिन् मार्गे यातायातभारः अत्यधिकः भवति। रुस्तमपुरचतुष्पथात् पैडलेगञ्जपर्यन्तस्य मध्ये देवरिया बिहारदिशं गन्तुं चतुःपथीयः बाइपासमार्गः निर्मितः अस्ति। अयं बाइपासमार्गः अपि नगरस्य अतीव महत्त्वपूर्णप्रदेशान् तारामण्डलम् चिडियाघरम् सहारा एस्टेट इत्येतान् अतिक्रामति।

यातायातदबावस्य एतासां परिस्थितीनां दृष्ट्या मुख्यमन्त्री योगी आदित्यनाथः षट्पथीयस्य उड्डयनसेतोः निर्माणस्य निर्देशान् दत्तवान्। अयं षट्पथीयः उड्डयनसेतुः टीपीनगरात् प्रारभ्य पैडलेगञ्जचतुष्पथात् पूर्वं यावत् निर्मितः अस्ति। तथा च टीपीनगरात् पैडलेगञ्जपर्यन्तस्य मध्ये निर्गच्छन्तं देवरियाबाइपासमार्गं चतुःपथीयेन लीफमार्गेण संयोजयितुं तस्य अपि निर्माणं कृतम्। जिलाधिकारी दीपक मीणा अवदत् यत् अस्मिन् षट्पथीये उड्डयनसेतौ आवागमनस्य आरम्भानन्तरं अस्मिन् मार्गे प्रतिदिनं जायमानात् भीडसमूहात् यातायातावरोधात् च स्थानीयनिवासिनः बहिरागतयात्रिकाश्च मुक्तिं प्राप्स्यन्ति।

षट्पथीयः उड्डयनसेतुः : एकदृष्ट्या

व्ययः : ४२९ कोटि ४९ लक्ष ३९ सहस्र रूप्यकाणि

समग्रदीर्घता : २.६५८ किलोमीटरमिता

कार्यारम्भः : फरवरी २०२३

कार्यसमाप्तिः : जून २०२६

---------------

Hindusthan Samachar / Dheeraj Maithani