Enter your Email Address to subscribe to our newsletters

शिमला, 19 जुलाईमासः (हि.स.)। पूर्वमुख्यमन्त्री तथा प्रतिपक्षनेता जयरामठाकुरः सुक्खूसरकारं प्रति तीक्ष्णं प्रहारं कुर्वन् उक्तवान् यत् सार्धत्रिवर्षाधिककार्यकालेऽपि शासनस्य स्वकीयाः काश्चन उल्लेखनीयाः उपलब्धयः न सन्ति। अतः शासनं पूर्वमेव सञ्चालितानां संस्थानानां योजनानां च नामानि गान्धीनेहरूपरिवारस्य नाम्ना नामाङ्कयित्वा राजनैतिकलाभं प्राप्तुं प्रयतते।
जयरामठाकुरः रविवासरे शिमलानगरात् प्रकाशिते वक्तव्ये उक्तवान् यत् शासनं स्वस्य नाम्ना तथा पूर्वप्रधानमन्त्रिणः इन्दिरागान्ध्याः नाम्ना बह्वीः योजनाः प्रारब्धवान् किन्तु ताः प्रदेशवासिनां कृते केवलं छलरूपाः एव सिद्धाः। तेन आरोपः कृतः यत् योजनानां सम्यक् क्रियान्वयनात् अधिकं धनं तासां प्रचारप्रसाराय व्ययीकृतम्। सः अवदत् यत् प्यारीबहना सुखसमृद्धियोजनायाः कृते आवेदनं कृतवत्यः महिलाः अद्यापि लाभप्राप्तेः प्रतीक्षां कुर्वन्ति यदा तु शासनं निरन्तरं पात्रतायाः शर्तान् परिवर्त्य जनान् सम्मोहयति।
प्रतिपक्षनेता आरोपं कृतवान् यत् वर्तमानशासनस्य उपलब्धयः केवलं संस्थानानां समापनम् पूर्वशासनस्य योजनानां वित्तविनियोगस्य निरोधनम् सार्धलक्षाधिकपदानां समापनम् सहस्रशः जनानां रोजगारात् वञ्चनं च इत्येतावत्यः एव सीमिताः सन्ति। तेन उक्तं यत् शासनं न स्थायिरोजगारं ददाति न च अस्थायिरोजगारस्य अवसरान् अवशेषयति।
केन्द्रशासनस्य सहयोगस्य उल्लेखं कुर्वन् सः अवदत् यत् मुख्यमन्त्री केन्द्रशासनस्य योजनानां श्रेयः स्वीकुर्वन्ति किन्तु प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रशासनस्य योगदानस्य उल्लेखं न कुर्वन्ति। तेन अभिहितं यत् चिकित्सास्नातकोत्तरासनविस्तारसहितासु बहुषु योजनासु केन्द्रशासनेन महत् वित्तीयसहयोगः प्रदत्तः अस्ति तथापि राज्यशासनं निरन्तरं केन्द्रशासनस्य आलोचनामेव करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani