भारत-टेक्स २०२६ - जुलाई-मासस्य १४ दिनाङ्कात् नवदेहल्यां भारतस्य बृहत्तमः वैश्विक-वस्त्र-मेलापकः आयोज्यते
नवदेहली, ०२ जुलाईमासः (हि.स.)। भारतस्य बृहत्तमं वैश्विक-वस्त्र-आयोजनं ‘भारत-टेक्स् २०२६’ इति अग्रिम-जुलाई-मासस्य १४ तः १७ दिनाङ्कपर्यन्तं नवदेहल्यां भारत-मण्डपम् इति स्थले आयोज्यते। अस्मिन् मेलापके विंशत्यधिक-देशानां सहभागिता भविष्यति। वस्त्र-मन्त
लोगो


नवदेहली, ०२ जुलाईमासः (हि.स.)। भारतस्य बृहत्तमं वैश्विक-वस्त्र-आयोजनं ‘भारत-टेक्स् २०२६’ इति अग्रिम-जुलाई-मासस्य १४ तः १७ दिनाङ्कपर्यन्तं नवदेहल्यां भारत-मण्डपम् इति स्थले आयोज्यते। अस्मिन् मेलापके विंशत्यधिक-देशानां सहभागिता भविष्यति।

वस्त्र-मन्त्रालयस्य अनुसारम् एषः मेलापकः मन्त्रालयस्य सहयोगेन भारत-टेक्स् ट्रेड् फेडरेशन इत्यनेन आयोज्यते। एतत् आयोजनं भारतस्य वस्त्रोद्योगस्य व्यापकतां वैविध्यं च एकस्मिन् वैश्विक-मञ्चे प्रदर्शयिष्यति।

अयं वैश्विक-वस्त्र-मेलापकः भारतस्य वस्त्र-उद्योगं, परिधान-क्षेत्रम्, धारणीय-विकासम्, प्रौद्योगिकीम्, नवाचारम्, निवेशं तथा अन्तरराष्ट्रीय-वाणिज्ये वर्धमानां वैश्विक-नेतृत्व-क्षमतां प्रदर्शयिष्यति।

एतदतिरिक्तम् अयं वैश्विक-वस्त्रोद्योगस्य सर्वान् प्रमुख-हितधारकान् एकत्र आनयिष्यति। अस्य उद्देश्यं भारते निवेशस्य, नवाचारस्य तथा अन्ताराष्ट्रिय-सहभागितानां प्रोत्साहनं कृत्वा देशं वैश्विक-मूल्य-शृङ्खलायाः अग्रस्थाने प्रतिष्ठापयितुम् अस्ति।

अस्मिन्नवसरे प्रायः ३५०० परिशोधिताः बी२बी-सभा:, १०० अधिकाः बी२जी-सभा:, तथा वाणिज्य-निवेश-प्रौद्योगिकी-धारणीय-विकास-विपणन-प्रवेश- एवं संस्थागत-सहयोगसम्बद्धेषु विंशत्यधिक-सन्धि-ज्ञापनेषु हस्ताक्षराणि भविष्यन्ति।

अस्य आयोजनस्य समये सीआईटीआई टेक्स्टाइल् सस्टेनेबिलिटी अवार्ड् २०२६, राज्य-सत्राणि तथा अन्यैः देशैः सह वस्त्र-वाणिज्य-विषयक-चर्चाः अपि आयोज्यन्ते।

डिजिटल-सुविधायाः अधिक-सुदृढीकरणस्य उद्देश्येन समीपे एव भारत-टेक्स २०२६ चलदूरवाणी-अनुप्रयोगः उद्घाटितः। अयं अनुप्रयोगः आयोजने सुकर-मार्गदर्शनम्, प्रदर्शकाणां विवरणम्, बी२बी-सभानां निर्धारणम्, डिजिटल-परिचयपत्रम्, क्यूआर-आधारित-सम्पर्क-सङ्ग्रहम्, प्रत्यक्ष-कार्यसूचीम् तथा कृत्रिम-बुद्धिमत्ता-सञ्चालित-सहायतां प्रदास्यति। एतदतिरिक्तं सहभागिनः भारत-टेक्स इत्यस्य आधिकारिक-जालपुटं गत्वा पञ्जीकरणम् अपि कर्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan