असमस्य बोरजुली क्षेत्राय अमिलत् जैव विविधतासंपद्स्थलस्य मान्यता, अरण्य धान संरक्षण परियोजनायाः महती सफलता
नव दिल्ली, 02 जुलाईमासः (हि.स.)। कृषककल्याणकृषिमन्त्रालयस्य अधीनस्थेन राष्ट्रियवृष्टिनिर्भरक्षेत्रप्राधिकरणेन वित्तपोषिता ‘जङ्गलधान्यस्य (ओरिजा रूफिपोगोन) यथास्थानसंरक्षणप्रबन्धनपरियोजना’ असमराज्ये महत्त्वपूर्णां सिद्धिम् अवाप्तवती। अस्याः परियोज
जंगली धान (ओरिजा रूफिपोगों)


नव दिल्ली, 02 जुलाईमासः (हि.स.)।

कृषककल्याणकृषिमन्त्रालयस्य अधीनस्थेन राष्ट्रियवृष्टिनिर्भरक्षेत्रप्राधिकरणेन वित्तपोषिता ‘जङ्गलधान्यस्य (ओरिजा रूफिपोगोन) यथास्थानसंरक्षणप्रबन्धनपरियोजना’ असमराज्ये महत्त्वपूर्णां सिद्धिम् अवाप्तवती। अस्याः परियोजनायाः अन्तर्गतं बोरजुली क्षेत्रं राष्ट्रीयजैवविविधताप्राधिकरणेन जैवविविधताधरोहरस्थलरूपेण अधिसूचितम् अस्ति।

एषा परियोजना २०२२ तमवर्षात् भारतीयकृषिअनुसन्धानपरिषदः राष्ट्रियपादपआनुवंशिकसंसाधनब्यूरो द्वारा असमराज्यजैवविविधतामण्डलस्य सहयोगेन सञ्चाल्यते। अस्याः प्रमुखः उद्देश्यः जङ्गलधान्यस्य आनुवंशिकसंसाधनानां संरक्षणं वैज्ञानिकाध्ययनं भविष्यकालाय सुरक्षितरक्षणं च अस्ति।

भारतीयकृषिअनुसन्धानपरिषदः राष्ट्रीयपादपआनुवंशिकसंसाधनब्यूरो इत्यस्य वैज्ञानिकदलम् राष्ट्रियवृष्टिनिर्भरक्षेत्रप्राधिकरणस्य मुख्यकार्यपालकाधिकारी डा चन्द्रशेखरकुमारं समुपेत्य परियोजनायाः प्रमुखसिद्धीनां विषये अवगतवान्। वैज्ञानिकैः उक्तं यत् बोरजुलीक्षेत्रे जङ्गलधान्यस्य समृद्धा जैवविविधता दृश्यते। अतः एतत् क्षेत्रं जैवविविधताधरोहरस्थलरूपेण घोषितम् अस्ति। अनेन अस्मिन् क्षेत्रे प्राकृतिकसंसाधनसंरक्षणं अधिकं सुदृढं भविष्यति।

डा चन्द्रशेखरकुमारः माध्यमेभ्यः अवदत् यत् जङ्गलधान्यस्य प्रजातयः भारतस्य अमूल्या आनुवंशिकसम्पदः सन्ति। एतासां माध्यमेन भविष्ये तादृश्यः नवीनाः धान्यप्रकाराः विकसितुं शक्यन्ते ये जलवायुपरिवर्तनं अनावृष्टिं अतिवृष्टिं च अधिकसमर्थतया प्रतिसहेरन् अधिकां उपजं प्रदद्युः उत्तमं पोषणमपि प्रदद्युः। तेन अन्येषामपि सस्यानां जङ्गलीयसंबद्धप्रजातीनां संरक्षणार्थम् एतादृश्याः पहलाः अधिकतया प्रवर्तनीयाः इति बलं दत्तम्।

अस्यां सभायां राष्ट्रीयवृष्टिनिर्भरक्षेत्रप्राधिकरणस्य निदेशकः कृषि उद्यानिकी विभागस्य डा पङ्कजकुमारशाह तथा जलागमप्रबन्धनस्य तकनीकीविशेषज्ञः डा अनिलकुमारमिश्रः अपि उपस्थितौ आस्ताम्।

---------------

Hindusthan Samachar / अंशु गुप्ता