Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, ०२ जुलाईमासः (हि.स.)। लेह-भ्रमणस्य अवसरं प्राप्य भारत-तिब्बत-सहयोग-मञ्चस्य राष्ट्रिय-बौद्धिकप्रकोष्ठस्य राष्ट्रियसह-समन्वयकः तथा जम्मू-कश्मीर-लद्दाख-केन्द्रशासित-प्रदेशयोः अध्यक्षः डा.विवेकः शर्मा हिमाचलप्रदेशस्य राज्यपालं कविन्दरगुप्तं शिष्टाचारसाक्षात्कारम् अकरोत्। सौहार्दपूर्णे वातावरणे सम्पन्ने अस्मिन् साक्षात्कारे राष्ट्रीयैकता, सांस्कृतिक-परम्परा, भारतस्य सभ्यतागत-सांस्कृतिकमूल्यानां सुदृढीकरणं च सम्बन्धिषु विविधविषयेषु सार्थकः विचारविमर्शः अभवत्।
अस्मिन् अवसरे डा.विवेकः शर्मा बीटीएसएम-परिवारस्य पक्षतः कविन्दर-गुप्तमहोदयाय हिमाचलप्रदेशस्य राज्यपालरूपेण नियुक्तेः निमित्तं हार्दिकाभिनन्दनं शुभकामनाश्च अयच्छत्। सः विश्वासं प्रकटितवान् यत् तेषां नेतृत्वे हिमाचलप्रदेशः विकासस्य सुशासनस्य च नवीनानि उन्नतिशिखराणि प्राप्स्यति। सभायां प्रतिनिधिमण्डलेन कविन्दर-गुप्तमहोदयस्य लद्दाखस्य पूर्व-उपराज्यपालरूपेण प्रदत्तस्य योगदानस्यापि प्रशंसा कृता। ते अवदन् यत् तेषां कार्यकाले आधारभूतसंरचनाविकासः, जनकल्याणम्, प्रशासनिकदक्षता तथा समावेशि-विकासस्य प्रोत्साहनार्थं बहवः महत्त्वपूर्णाः प्रयत्नाः कृताः, येषां लद्दाखस्य विकासे सकारात्मकः प्रभावः अभवत्। बीटीएसएम-प्रतिनिधिमण्डले महासचिवः राजिन्दरः सढोत्रा, कोषाध्यक्षः अरुणगुप्तः तथा लद्दाख-केन्द्रशासितप्रदेशस्य प्रभारी दविन्दरः पाढ़ा अपि समाविष्टाः आसन्।
Hindusthan Samachar / Divya Ranjan