Enter your Email Address to subscribe to our newsletters

चार्वी अरोड़ा, स्पैन-पत्रिका
भारतीयानां यूनां बास्केटबॉल-क्रीडकाणां नूतनवंशाय अमेरिका मानचित्रे दूरवर्तीदेशः सन्नपि हृदये समीपवर्तीव अनुभूयते। ते सामाजिकमाध्यमेषु नेशनल-बास्केटबॉल-एसोसिएशन-इत्यस्य प्रसिद्धक्रीडकान् अनुसरन्ति, यूट्यूब-माध्यमेन तेषां क्रीडाया सूक्ष्मतत्त्वानाम् अध्ययनं कुर्वन्ति, स्वेषां प्रियक्रीडकाणां विषये चर्चां कुर्वन्ति, विश्वस्य महान्तमे क्रीडामञ्चे स्पर्धां कर्तुं च स्वप्नं पश्यन्ति।
मे-मासे २०२६ तमे वर्षे नवीदिल्लीस्थे अमेरिकन-सेण्टर-नामके केन्द्रे आयोजिते ‘फ्रीडम् २५०–स्लैम डङ्क एक्स्पीरियन्स’ इति कार्यक्रमे एषः भावसम्बन्धः प्रत्यक्षरूपेण साकारः अभवत्। देहल्याः विभिन्नविद्यालयेभ्यः बास्केटबॉल-अकादमीभ्यश्च आगताः शतपञ्चाशदधिकाः विद्यार्थिनः एनबीए-प्रतिनिधिभिः सह मिलितुं समागताः। एनबीए अमेरिकादेशस्य प्रमुखा व्यावसायिका बास्केटबॉल-लीग-स्पर्धा अस्ति, यत्र विश्वप्रसिद्धाः बास्केटबॉल-क्रीडकाः क्रीडन्ति।
अयं कार्यक्रमः ‘फ्रीडम् २५०’ इति समारोहमालायाः अन्तर्गतः आयोजितः, या अमेरिकादेशस्य द्विशतपञ्चाशत्तम-स्थापनावर्षगांठोत्सवस्य निमित्तम् आरब्धः प्रयत्नः अस्ति। नवीदिल्लीस्थेन अमेरिकीय-दूतावासेन अमेरिकीया व्यावसायिका बास्केटबॉल-सङ्घेन ‘सैक्रामेण्टो किङ्ग्स’ इत्यनेन सह सहभागितां कृत्वा विद्यार्थिभ्यः बास्केटबॉल-क्रीडायाः अभ्यासस्य, अस्यां कुशलता-सम्पादनस्य तथा समानाभिलाषाभिः परस्परं सम्बद्धतां स्थापयितुं च अवसरः प्रदत्तः।
भारते बास्केटबॉल-क्रीडायाः वर्धमाना लोकप्रियता
यदा विद्यार्थिभ्यः तेषां प्रियबास्केटबॉल-नायकानां विषये पृष्टं भवति, तदा ते शीघ्रमेव उत्तरं ददति— स्टीफनकरी, कोबीब्रायण्टः, एलन-आइवर्सन्, डेविनबुकरः तथा जियानिसः एण्टेटो-काउनम्पो। एते नामानि भिन्नकालान्, विविधान् क्रीडासङ्घान् तथा पृथक् क्रीडाशैलीः प्रतिनिधित्वेन दर्शयन्ति, येन बास्केटबॉल-क्रीडायाः वर्धमाना लोकप्रियता स्पष्टा भवति।
कार्यक्रमस्य प्रतिभागिषु अन्यतमस्य अफ्युपाङ्ग-मिश्रस्य कृते एण्टेटो-काउनम्पो प्रेरणायाः प्रमुखः स्रोतः अस्ति। सः मिल्वॉकी बक्स-सङ्घस्य अस्य प्रमुखक्रीडकस्य प्रशंसां करोति, यतः तस्य व्यक्तित्वं तथा क्रीडाकौशलम् अत्यन्तं प्रभावशाली अस्ति। कार्यक्रमे सहभागिनाम् अन्येषां युवाक्रीडकानामिव सः अपि भारतात् बहिः व्यावसायिकस्तरे क्रीडितुं तथा अन्ते विश्वस्य सर्वोच्च-क्रीडास्तरे स्पर्धां कर्तुम् आशां धारयति।
एवंप्रकाराः महानभिलाषाः सम्पूर्णदिवसं कार्यक्रमस्य प्रमुखविषयः अभवन्। नेहरू-वर्ल्ड-विद्यालयस्य षोडशवर्षीयः क्रीडकः कृष्णसिंहः, यः राष्ट्रियस्तरे उत्तरप्रदेशस्य प्रतिनिधित्वम् अकरोत्, भविष्ये अन्ताराष्ट्रियस्तरे क्रीडितुम् इच्छति। सः वदति— “मम लक्ष्यं एनबीए-पर्यन्तं प्राप्तुम् अस्ति।” तस्य सहपाठी मयङ्क-त्यागी अपि तादृशमेव लक्ष्यं धारयति। सः वदति— “अहं भारतस्य कृते क्रीडितुम् इच्छामि, किन्तु मम मुख्यलक्ष्यं अन्ताराष्ट्रियस्तरे क्रीडनमेव अस्ति।”
सम्पूर्णकार्यक्रमस्य अवधौ प्रतिभागिनः प्रक्षेपण-पादनिर्देशन-द्रुतगेन्दुसञ्चालनाभ्यासकेन्द्रेषु अभ्यासम् अकुर्वन् तथा सैक्रामेण्टो किङ्ग्स-सङ्घस्य प्रशिक्षकैः देहल्याः अन्यैः क्रीडकैश्च सह संवादम् अकुर्वन्। अनेकेषां विद्यार्थिनां कृते एषः अनुभवः एतादृशं विश्वासं दृढीकृतवान् यत् भारते बास्केटबॉल-क्रीडायाः भविष्यं नूनं उज्ज्वलम् अस्ति।
नेहरू-वर्ल्ड-विद्यालयस्य रुद्राक्षी वर्मा वदति— “भारते बास्केटबॉल-क्रीडा निरन्तरं वर्धते, अस्याः भविष्यं च नितराम् उज्ज्वलम् अस्ति।” तस्याः मते एषा क्रीडा तादृशान् जीवनोपयोगिनः पाठान् शिक्षयति, ये केवलं क्रीडाप्रदर्शनपर्यन्तं न सीमिताः भवन्ति। सा वदति— “एषा केवलं क्रीडा नास्ति। अस्याः माध्यमेन वयं नूतनैः जनैः सह परिचयं कुर्मः, नवीनान् विषयान् ज्ञातुं शक्नुमः, क्रीडासद्भावं च अधिगच्छामः, यत् न पुस्तकेभ्यः न वा केवलात् शैक्षणिकाध्ययनात् अधिगन्तुं शक्यते।”
शिवनाडर-विद्यालयस्य सिमरन-एनबीए-सङ्घस्य महान् क्रीडकः कोबीब्रायण्टः इत्यस्मात् प्रेरणां लभते। तस्य समर्पणभावः अनुशासनं च अद्यापि विश्वस्य क्रीडकान् प्रेरयतः। ब्रायण्ट-इत्यस्य प्रसिद्धा ‘माम्बा-मेण्टालिटी’—निरन्तर-आत्मविकासे दृढसंकल्पे च आधारितः जीवनदर्शनविशेषः—तस्याः कृते अद्यापि प्रेरणास्रोतः अस्ति।
एनबीए-प्रख्यातक्रीडकात् प्रशिक्षणम्
विद्यार्थिनः एनबीए-इतिहासस्य प्रसिद्धस्य हॉल-ऑफ-फेम-सम्मानितस्य व्लाडेडीवात्सस्य उपदेशमपि अशृण्वन्। लॉसएञ्जिलिसलेकर्सः, शार्लटहॉर्नेट्सः तथा सैक्रामेण्टोकिङ्ग्सः इत्येतेषु सङ्घेषु तस्य दीर्घः क्रीडाजीवनप्रवासः तं विश्वस्य सुप्रसिद्धेषु अन्ताराष्ट्रियबास्केटबॉल-क्रीडकेषु अन्यतमं कृतवान्।
प्रतिभागिभिः सह संवादं कुर्वन् डीवात्सः बलपूर्वकम् अवदत् यत् सफलता एतेन न निर्धारिता भवति यत् कः कुत्र जन्म लभते अथवा कुत्र आरभते। स्वजीवनस्य दृष्टान्तं दत्त्वा सः विद्यार्थिनः स्वलक्ष्यप्राप्तये कठोरपरिश्रमम्, अनुशासनम्, शिक्षायां च विशेषध्यानं दातुं प्रोत्साहितवान्। सः अवदत्— “भवतः जन्म कुत्र अभवत्, एतत् महत्त्वपूर्णं नास्ति। यदि यूयं सम्यक् कर्म कुर्वन्ति, तर्हि स्वप्नानि नूनं साकारयितुं शक्नुथ।”
डीवात्सः क्रीडायाः शैक्षणिकशिक्षायाश्च मध्ये सम्यक्सन्तुलनस्य महत्त्वमपि विशेषरूपेण प्रतिपादितवान्। सः अवदत् यत् क्रीडाङ्गणे तस्मात् बहिः च समर्पणभावः युवा-क्रीडकाणां कृते नूतनावसरान् सृजितुं समर्थः भवति। सः अवदत्— “यदि यूयं क्रीडां प्रेम्णा सेवध्वे, कठिनपरिश्रमं कुर्वथ, विद्यालये च उत्तमं प्रदर्शनं कुर्वथ, तर्हि बास्केटबॉलक्रीडा नूनमेव भवद्भ्यः एनबीए-क्रीडकत्वस्य मार्गं प्रदर्शयति।”
अन्ताराष्ट्रियस्तरे स्पर्धितुं स्वप्नं पश्यद्भ्यः विद्यार्थिभ्यः अस्य कार्यक्रमस्य सन्देशः अत्यन्तं स्पष्टः आसीत्— प्रतिभा महत्त्वपूर्णा भवति, किन्तु प्रतिबद्धता, सम्यक्-प्रस्तुतिः च तावत् एव महत्त्वपूर्णे स्तः। डीवात्सः प्रतिभागिनः स्मारितवान् यत् ये स्वस्य विकासाय समयं श्रमं च निवेशयितुं सिद्धाः भवन्ति, तेषां कृते अवसराः अप्रत्याशितस्थानेभ्यः अपि समुत्पद्यन्ते। सः अवदत्— “यदि यूयं क्रीडां प्रेम्णा सेवध्वे, स्वक्रीडायां निरन्तरं परिश्रमं कुर्वथ, तस्याः विकासाय च प्रयतध्वे, तर्हि भविष्ये—कः जानाति—यूयं अपि एनबीए-पर्यन्तं प्राप्तुं शक्नुथ।”
अमेरिका-भारतयोः क्रीडाकूटनीतेः सजीवम् उदाहरणम्
बास्केटबॉल-कौशलस्य प्रदर्शनात् परम् अयं कार्यक्रमः सार्थकसंवादस्य अवसरानपि प्रदत्तवान्। अनेके विद्यार्थिनः अवदन् यत् अमेरिकीयप्रशिक्षकैः, क्रीडकैः, प्रतिनिधिभिश्च सह संवादेन तेषां क्रीडाजगतः, तत्रस्थितानां जनानां, तेषां दृष्टिकोणस्य च सम्यगवगमनस्य अवसरः प्राप्तः। प्रतिभागिनी विद्यार्थिनी थियो अवदत् यत् अस्य कार्यक्रमस्य विशेषतमं वैशिष्ट्यं परस्परसंवादप्रधानता आसीत्। सा अवदत्— “ते एतत् सुनिश्चितवन्तः यत् कश्चिदपि स्वं पृथक्कृतमिव न अनुभवेत्। अयं सर्वाङ्गसुन्दरः अनुभवः आसीत्।”
रुद्राक्ष्याः मते अयं अनुभवः भारत-अमेरिकादेशयोः युवजनयोः विद्यमानाः समानताः स्पष्टतया प्रकाशयति। सा वदति— “अनेन अस्माभिः ज्ञातुं शक्यते यत् ते किं चिन्तयन्ति, तेषां स्वभावः कीदृशः अस्ति, क्रीडायाः विषये तेषां मनोवृत्तिः का अस्ति, अस्माकं च तैः सह काः समानताः सन्ति।” बास्केटबॉल-प्रशिक्षकः विषय-वस्तुनिर्माता च देवांशः पावडीघडा एतान् सम्बन्धान् स्वयमेव अनुभूतवान्। अमेरिकादेशे अध्ययनं प्रशिक्षणं च प्राप्त्वा सः सम्प्रति भारते युवा-प्रतिभानां विकासे निरतः अस्ति, देशे वर्धमानायाः बास्केटबॉल-संस्कृतेः अभिलेखनकार्यं च करोति।
सः वदति— “क्रीडा, कला, सङ्गीतं च एतानि तादृशानि साधनानि सन्ति यानि सर्वाः सीमाः अतिक्रामन्ति।” पावडीघडस्य मते बास्केटबॉलक्रीडा जनानां मध्ये ऐक्यभावं जनयति, यत् विरलमेव अन्येन केनापि माध्यमेन साध्यते। अस्याः क्रीडायाः माध्यमेन निर्मिताः सम्बन्धाः अद्यापि तस्य जीवनं व्यावसायिकजीवनं च आकारयन्ति। सः वदति— “मित्राणि सम्पादयितुं, नूतनैः जनैः सह परिचयं कर्तुं, आत्मविश्वासं च वर्धयितुं बास्केट-बॉलक्रीडया मम महान् लाभः अभवत्। एषा क्रीडा जनान् अद्वितीयरीत्या संयोजयति, एतदेव अस्याः परमं वैशिष्ट्यम् अस्ति।”
बास्केटबॉलक्रीडायाः वैश्विकभविष्यस्य निर्माणम्
डीवात्सः भारते बास्केटबॉलक्रीडायाः अपरिमिताः सम्भावनाः पश्यति। सः वदति— “भारतः महान् विशालश्च देशः अस्ति। वयं विशेषतः बालकानां कृते बास्केटबॉल-क्रीडायाः विकासे तेषां साहाय्यं कर्तुम् इच्छामः।”
क्रिकेटक्रीडायाः स्थायिलोकप्रियतां स्वीकुर्वन्नपि डीवात्सस्य मतम् अस्ति यत् बास्केटबॉलक्रीडा तया सह सममेव निरन्तरं प्रगतिं करिष्यति। सम्पूर्ण-कार्यक्रमस्य अवधौ विद्यार्थिभिः प्रदर्शितः उत्साहः प्रतिभा च तस्य एतं विश्वासं अधिकं दृढीकृतवन्तौ। डीवात्सस्य दृष्ट्या भारते बास्केटबॉलक्रीडायाः भविष्यं तस्य महत्तरस्य आख्यानस्य अंशः अस्ति, यत् दर्शयति— एषा क्रीडा सीमाः अतिक्रम्य जनान् परस्परं संयोजयितुं समर्था अस्ति। स्वस्य क्रीडाजीवनस्य अवधौ बास्केट-बॉलक्रीडया सः विश्वस्य विभिन्न-देशेषु जनैः समुदायैश्च सह सम्बद्धः अभवत्, यत् अस्याः क्रीडायाः वैश्विकव्याप्तेः सशक्तं प्रमाणम् अस्ति।
‘फ्रीडम् २५०–स्लैम डङ्क एक्स्पीरियन्स’ इति कार्यक्रमः एतमेव भावं प्रतिबिम्बितवान्। विद्यार्थिनः, प्रशिक्षकान्, एनबीए-प्रतिनिधींश्च एकत्रीकृत्वा अयं कार्यक्रमः प्रदर्शितवान् यत् क्रीडा कथं युवानः प्रेरयितुं, नूतनावसरान् सृजितुं, भारत-अमेरिकादेशयोः सम्बन्धान् च अधिकं सुदृढान् कर्तुं शक्नोति। यथा ‘स्लैम डङ्क एक्स्पीरियन्स’ इति कार्यक्रमस्य सन्देशः अस्ति— “क्रीडा जनान् संयोजयति।”
Hindusthan Samachar / Divya Ranjan