धमतरी : कृत्रिम गर्भाधानेन पशुधन विकासस्य आदर्शत्वेन जातः ग्रामः पुरीत्याख्यः, निरंतरं 5 शतसंख्यकलीटरमितात् अधिकस्य दुग्धस्य संकलनम्
धमतरी, 02 जुलाईमासः (हि.स.)। कृषिमन्त्री रामविचार नेतामः गुरुवासरे धमतरीप्रवासस्य समये ग्रामं पुरीम् आगत्य पशुधनविकासविभागस्य योजनानां नवाचाराणां च अवलोकनम् अकरोत्। पशुचिकित्सासंस्थायाः मुख्यग्रामैकके आयोजितायाम् उन्नतवत्सप्रदर्शिन्यां कृत्रिमगर
किसानों से चर्चा करते हुए पशुधन विकास मंत्री रामविचार नेताम


धमतरी, 02 जुलाईमासः (हि.स.)।

कृषिमन्त्री रामविचार नेतामः गुरुवासरे धमतरीप्रवासस्य समये ग्रामं पुरीम् आगत्य पशुधनविकासविभागस्य योजनानां नवाचाराणां च अवलोकनम् अकरोत्।

पशुचिकित्सासंस्थायाः मुख्यग्रामैकके आयोजितायाम् उन्नतवत्सप्रदर्शिन्यां कृत्रिमगर्भाधानप्रौद्योगिक्या सिद्धानां द्विचत्वारिंशत् उन्नतवत्सानां प्रथमद्वितीयतृतीयपीढीसम्बद्धानां प्रदर्शनम् अभवत्। नेतामः उन्नतनस्लीयान् वत्सान् निरीक्षितवान्, गाभ्यः हरितचारेण भोजनम् अकारयत्, विभागस्य वैज्ञानिकप्रयत्नान् प्रशंसन् उक्तवान् यत् आधुनिकप्रौद्योगिक्याः माध्यमेन पशुधनस्य गुणवत्तायाः संवर्धनं दुग्धोत्पादनस्य च वर्धनं कृषकाणां पशुपालकानां च आयवृद्धेः दिशि महत्त्वपूर्णं पदम् अस्ति।

कार्यक्रमे कृषि उत्पादनायुक्तः सिद्धार्थ कोमल सिंह परदेशी, पशुधनविकासविभागस्य संचालकः चन्द्रकान्त वर्मा, जिलाधिकारी अबिनाश मिश्रा तथा विभागीयाधिकारिणः उपस्थिताः आसन्। अतिथयः प्रदर्शिनीम् अवलोक्य पशुपालकैः सह संवादम् अकुर्वन् तथा विभागीययोजनानां प्रभावीक्रियान्वयनस्य विषये जानकारीम् अलभन्त।

ग्रामस्य पुरी सरपञ्चः कुन्ती देवदास तथा दुग्धसहकारीसमितेः अध्यक्षः चिरौंजीलाल साहू अवदताम् यत् ग्रामे शतप्रतिशतं कृत्रिमगर्भाधानस्य कारणात् प्रायः प्रत्येकं परिवारः दुग्धव्यवसायेन सम्बद्धः अभवत्। सम्प्रति दुग्धसङ्ग्रहकेन्द्रे प्रतिदिनं पञ्चशताधिकलीटरपरिमितं दुग्धसङ्ग्रहणं भवति, येन ग्रामीणानाम् आये उल्लेखनीया वृद्धिः अभवत्। ग्रामः पुरी अधुना वैज्ञानिकपशुपालनस्य डेयरीविकासस्य च प्रेरणादायकप्रतिमानरूपेण प्रतिष्ठितः अस्ति। अस्मिन् अवसरे कृत्रिमगर्भाधानकार्ये सूचनातन्त्रस्य सहयोगिनः ग्रामस्य गोपालकाः गमछेन श्रीफलेन च सम्मानिताः।

कृषिक्षेत्रे आधुनिकप्रौद्योगिक्याः प्रोत्साहनार्थं क्षेत्रेषु औषधछिडकावाय स्प्रेड्रोन इत्यस्य पूजनं कृत्वा तस्य प्रदर्शनम् अपि कृतम्।

कृषकान् अवगतं कारितम् यत् ड्रोनप्रौद्योगिक्या अल्पसमये अल्पव्ययेन अधिकदक्षतया कृषिकार्यानि सम्पादयितुं शक्यन्ते। नेतामः धमतरीजिले पशुधनविकासविभागेन सञ्चालितानां कृत्रिमगर्भाधान, नस्लसुधार, डेयरीविकास तथा अन्येषां नवाचाराधारितक्रियाकलापानां प्रशंसां कृत्वा उक्तवान् यत् अस्य जिलस्य आदर्शः अन्येषां जिलानाम् अपि प्रेरणास्रोतः अस्ति। कार्यक्रमे उपसंचालकः डा ए के मरकाम, अतिरिक्तोपसंचालकः डा टी आर वर्मा, पशुचिकित्सासहायकशल्यज्ञः डा प्रमोदकुमार ठाकुरः, विभागीयाधिकारिणः, उन्नतपशुपालकाः, कृषकाः तथा बहुसंख्यकाः ग्रामीणाः सहभागिनः आसन्।

Hindusthan Samachar / Dheeraj Maithani