उदग्रविमानपरिचालनाय प्राइवेट प्वाइंट-इन-स्पेस इंस्ट्रूमेंट अप्रोच इत्यस्यै प्रक्रियायै सहमतिः
नवदिल्ली, 02 जुलाईमासः (हि.स.) उदग्रविमान-सञ्चालनार्थं देशस्य प्रथमायाः निजीया प्वाइंट इन स्पेस इति पिनएस उपकरणाधारित आगमनप्रक्रियायाः अनुमोदनप्राप्त्या भारतदेशः विमाननक्षेत्रे महत्त्वपूर्णाम् उपलब्धिं प्राप्तवान्। अनेन दूरस्थानां दुर्गमानां सामरिक
नागरिक उड्डयनमंत्री राम मोहन नायडू। फोटो - फाइल


नवदिल्ली, 02 जुलाईमासः (हि.स.) उदग्रविमान-सञ्चालनार्थं देशस्य प्रथमायाः निजीया प्वाइंट इन स्पेस इति पिनएस उपकरणाधारित आगमनप्रक्रियायाः अनुमोदनप्राप्त्या भारतदेशः विमाननक्षेत्रे महत्त्वपूर्णाम् उपलब्धिं प्राप्तवान्। अनेन दूरस्थानां दुर्गमानां सामरिकदृष्ट्या महत्त्वपूर्णानां च क्षेत्राणां उदग्रविमानसञ्चालनम् अधिकं सुरक्षितं भविष्यति।

नागरविमाननमन्त्रालयेन बुधवासरे रात्रौ उद्घोषितं यत् देशस्य प्रथमायाः निजीया प्वाइंट इन स्पेस इति पिनएस उपकरणाधारित आगमनप्रक्रियायाः उण्डवल्ली उदग्रविमानस्थानके उदग्रविमानसञ्चालनार्थम् अनुमोदनं प्रदत्तम्।

भारतीयविमानपत्तनप्राधिकरणेन विकसितां नागरविमाननमहानिदेशालयेन अनुमोदितां च एषा प्वाइंट इन स्पेस प्रक्रिया नागरविमाननमहानिदेशालयस्य विनियमानाम् अन्ताराष्ट्रियनागरविमाननसङ्गठनस्य मानकानां अनुशंसितप्रथानां च अनुरूपतया निर्मिता अस्ति। नागरविमाननमन्त्री राममोहननायडुः पिनएस उपकरणाधारित आगमनप्रक्रियायाः प्रवर्तनविषये उक्तवान् यत् भारतस्य प्रथमायाः पिनएस उपकरणाधारित आगमनप्रक्रियायाः प्रारम्भः हेलीकॉप्टरसञ्चालनक्षेत्रे नूतनयुगस्य आरम्भः अस्ति। अनेन उड्डयनसुरक्षायाः सञ्चालनदक्षतायाः सर्वप्रकारस्य वायुमण्डलीयपरिस्थितिषु सुलभतायाः च सामर्थ्ये उल्लेखनीयवृद्धिः भविष्यति।

तेन उक्तं यत् गतसप्ताहे एव वाणिज्यविमानेन देशस्य प्रथमस्य स्वदेशीयस्य गगनाधारितस्य प्रिसिजन आगमनप्रक्रियायाः सफलप्रदर्शनं कृतम्। देशस्य प्रथमायाः प्वाइंट इन स्पेस उपकरणाधारित आगमनप्रक्रियायाः प्रारम्भः अस्याः यात्रायाः अपरम् एकं महत्त्वपूर्णम् उपलब्धिरूपम् अस्ति। एषा उपलब्धिः प्रदर्शनाधारितमार्गदर्शनप्रणाल्या विमाननाधारसंरचनायाः आधुनिकीकरणम् स्वदेशीयोपग्रहाधारितमार्गदर्शनप्रौद्योगिकीनां उपयोगस्य विस्तारः भारतस्य विमाननपरिस्थितेः वैश्विकश्रेष्ठमानकानुसारं विकासः च इति शासनस्य संकल्पं अधिकं सुदृढं करोति।

तेन उक्तं यत् अस्माकं सर्वोच्चप्राथमिकता देशव्यापिनि हेलीकॉप्टरसञ्चालने अधिकविश्वसनीयतां सुलभतां च स्थापयितुं आधुनिकप्रौद्योगिकीनाम् अवलम्बनम् अस्ति। भारते प्रौद्योगिकीसञ्चालितस्य वैश्विकमानकानुरूपस्य हेलीकॉप्टरपरिस्थितितन्त्रस्य निर्माणम् अस्माकं दृढसंकल्पः अस्ति।

नायडुः उक्तवान् यत् अद्यतनप्रौद्योगिकीसमन्विताधारसंरचनायाः साहाय्येन अस्मिन् वर्षे चतुर्धाम उदग्रविमानसेवायाः प्रथमचरणस्य सञ्चालनं कस्यापि विघ्नस्य अभावे सफलतया सम्पन्नम्।

**नागरविमाननमन्त्रालयेन उक्तं यत् अस्य अनुमोदनस्य अनन्तरं देशव्यापिनि एतादृश्याः प्वाइंट इन स्पेस प्रक्रियाणां विकासस्य मार्गः प्रशस्तः भविष्यति। अनेन आपत्कालीनचिकित्सासेवाः आपदुद्धारकार्यक्रमाः पर्यटनम् अपतटीयक्रियाकलापाः तीर्थयात्रासेवाः निगमविमाननम् क्षेत्रीयसम्पर्कव्यवस्था च महत्त्वपूर्णं लाभं प्राप्स्यन्ति। एषा व्यवस्था दूरस्थेषु सामरिकदृष्ट्या महत्त्वपूर्णेषु च क्षेत्रेषु उपकरणाधारितउड्डयननियमानुसारं सुरक्षिततरं हेलीकॉप्टरसञ्चालनं समर्थयिष्यति सञ्चालनविश्वसनीयतां वर्धयिष्यति प्रतिकूलवायुमण्डलीयस्थितेः कारणेन उत्पद्यमानान् व्यवधानान् च न्यूनान् करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani