अमरनाथ-तीर्थयात्रिणां प्रस्थानात् पूर्वम् उपराज्यपालेन मनोज-सिन्हा-महोदयेन पूजार्चना कृता, यात्रायाः पवित्रता अवश्यं संरक्षणीया इति उक्तम्
जम्मूनगरम्, ०२ जुलाईमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालेन मनोज-सिन्हा-महोदयेन अमरनाथ-तीर्थयात्रिणां प्रथम-दलस्य प्रस्थानात् पूर्वं पूजार्चना कृता। उपराज्यपालः अवदत् यत् अमरनाथ-यात्रा अस्माकम् आध्यात्मिक-परम्पराणां, सांस्कृतिक-धरोहरस्य तथा सामू
ea841e05d78ad68d0f75db027b325fa9_1724411424.jpg


जम्मूनगरम्, ०२ जुलाईमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालेन मनोज-सिन्हा-महोदयेन अमरनाथ-तीर्थयात्रिणां प्रथम-दलस्य प्रस्थानात् पूर्वं पूजार्चना कृता। उपराज्यपालः अवदत् यत् अमरनाथ-यात्रा अस्माकम् आध्यात्मिक-परम्पराणां, सांस्कृतिक-धरोहरस्य तथा सामूहिक-श्रद्धायाः कालातीतः प्रतीकः अस्ति। एषा देशस्य पवित्रतमेषु धार्मिक-आयोजनेषु अन्यतमा अस्ति। अस्याम् यात्रायां समग्र-देशस्य लक्षशः जनानां श्रद्धायाः प्रतिनिधित्वं कुर्वती महती उत्तरदायित्व-भावना निहिता अस्ति।

सः अवदत् यत् अस्माकं सर्वेषां दायित्वम् अस्ति यत् अस्याः तीर्थयात्रायाः पवित्रता संरक्ष्यताम् तथा यात्रां कुर्वतः प्रत्येकस्य श्रद्धालोः सुरक्षा, सम्मानः, सुख-सुविधाः, समुचित-परिचर्या च सर्वोत्तम-स्तरे सुनिश्चिताः भवेयुः। सिन्हा-महोदयः अवदत्—“अस्मिन् पवित्रे अवसरे अहं तादृशस्य जम्मूनगरस्य परिकल्पनां करोमि यत् आध्यात्मिक-पर्यटनस्य, सांस्कृतिक-अध्ययनस्य तथा मानवीय-मूल्यानां वैश्विक-केन्द्ररूपेण प्रतिष्ठां प्राप्नुयात्। अहं तवी-नदी-तट-विकास-परियोजनां पर्यावरण-संरक्षणस्य, स्थायि-विकासस्य तथा आधुनिक-नागर-योजनायाः आदर्श-रूपेण द्रष्टुम् इच्छामि, यत्र प्रकृतिः, संस्कृतिः, आधुनिक-सुविधाश्च परस्परं पूरयन्त्यः विकासस्य नूतनं प्रतिमानं निर्मापयेयु::।”

उपराज्यपालः अवदत् यत् शताब्दीभ्यः जम्मूनगरम् आध्यात्मिक-जागरूकतायाः, सांस्कृतिक-समृद्धेः तथा ज्ञानस्य केन्द्ररूपेण प्रसिद्धम् अस्ति। स्वैः प्राचीन-मन्दिरैः सह एषा भूमिः दीर्घकालात् आध्यात्मिक-चिन्तनस्य भारतीय-संस्कृतेः श्रेष्ठ-मूल्यानां च प्रतीकरूपेण वर्तते। इतिहासे यस्याः विशिष्टायाः परिचित्याः प्रशंसा अभवत्, तां पुनः प्राप्तुम् जम्मूनगरं प्रगतिमार्गे अस्तीत्येतत् दृष्ट्वा हर्षः भवति। सः नागरिकान् नगरं स्वच्छं सजीवं च स्थापयितुं सक्रिय-सहभागितायै आह्वानम् अकरोत्।

सः तवी-नदी-तट-विकास-परियोजनायाः निर्माणार्थं तथा नदीं सामुदायिक-जीवनस्य केन्द्रे पुनः प्रतिष्ठापयितुं जम्मू-स्मार्ट-सिटी-लिमिटेड-इत्यस्य प्रयासान् प्रशशंस। सः अवदत् यत् ये नदी-तटाः पूर्वम् उपेक्षिताः आसन्, ते अधुना संस्कृतेः, परम्परायाः, सामाजिक-सौहार्दस्य तथा आध्यात्मिक-मूल्यानां सजीव-केन्द्राणि अभवन्। सिन्हा-महोदयः अवदत् यत् नदीयाः अविरल-प्रवाहितं जलम् अस्मान् स्मारयति यत् यथा तस्याः जलं भेदभावं विना स्वतन्त्रतया प्रवहति तथा मानव-जीवनमपि प्रेम्णा, सहयोगेन परस्पर-सम्मानेन च प्रवर्तितव्यम्।

मनोज-सिन्हा-महोदयः अवदत्—“अमरनाथ-यात्रा-काले प्रतिदिनं सायंकाले तवी-आरार्तिकी आयोजयिष्यते, तथा प्रज्वालितः प्रत्येकं दीपः आशायाः, पवित्रतायाः, नूतनारम्भस्य तथा श्रद्धायाः प्रकाशं प्रसारयिष्यति। सः केवलं तीर्थयात्रिणां मार्गमेव न प्रकाशयिष्यति, अपितु अस्माकं समाजस्य भावनामपि आलोकयिष्यति।”

Hindusthan Samachar / अंशु गुप्ता