Enter your Email Address to subscribe to our newsletters

नवदेहली, ०२ जुलाईमासः (हि.स.)। लोकसभाध्यक्षः ओम्-बिड़ला जुलाईमासस्य ३ दिनाङ्के कोलकातानगरे पश्चिमबङ्ग-विधानसभायाः नवनिर्वाचित-सदस्यानां कृते आयोजितस्य द्विदिवसीय-प्रशिक्षण-कार्यक्रमस्य उद्घाटनं करिष्यति।
लोकसभा-सचिवालयस्य अनुसारम् अस्य द्विदिवसीय-कार्यक्रमस्य मुख्योद्देश्यं नूतन-विधायकान् विधायिकायाः संसदीय-कार्यप्रणाल्याः सूक्ष्म-पक्षैः परिचाययितुम् अस्ति। अस्मिन्नवसरे पश्चिमबङ्गस्य मुख्यमन्त्री सुवेन्दु-अधिकारी, केन्द्रीय-संसदीय-कार्यमन्त्री किरेन्-रिजिजू, राज्यसभायाः उपसभापतिः हरिवंशः, विधानसभाध्यक्षः रथीन्द्र-बोसः, राज्यस्य संसदीय-कार्यमन्त्री डॉ.शङ्कर-घोषः, विधानसभायां विपक्ष-नेता ऋतब्रत-बनर्जी तथा अन्ये बहवः गण्यमान्याः उपस्थिताः भविष्यन्ति।
अस्मिन् कार्यक्रमे अनेकानि महत्त्वपूर्णानि तकनीकी-सत्राणि आयोजिष्यन्ते। तेषु देशस्य विभिन्नभागेभ्यः वरिष्ठ-संसदीय-विशेषज्ञाः, सांसदाः, विभिन्न-राज्यानां पीठासीन-अधिकारिणश्च नूतन-सदस्यानां मार्गदर्शनं करिष्यन्ति। एतेषु सत्रेषु प्रभावी-विधायकः कथं भवेत्, संसदीय-परम्पराः, शिष्टाचारः, विधानमण्डलेषु प्रश्नैः अन्यैः प्रक्रियात्मक-साधनैश्च कार्यपालिकायाः उत्तरदायित्व-निर्धारणम्, विधायी-वित्तीय-प्रक्रियाः, भारतीय-संसदः समिती-व्यवस्था, बजट-प्रक्रिया, वित्तीय-कार्यम्, निजी-सदस्य-विधेयकानि, संसदीय-विशेषाधिकाराः, आचारनीतिः तथा राष्ट्रीय-ई-विधान-अनुप्रयोगः इत्यादीनां अङ्कीय-साधनानां प्रशिक्षणम् इत्यादिषु विषये विचार-विमर्शः भविष्यति।
अस्य द्विदिवसीय-प्रबोधन-कार्यक्रमस्य समापनं शनिवासरे (४ जुलाईमासे) पश्चिमबङ्ग-विधानसभायाः सदन-कक्षे भविष्यति। समापन-सत्रं राज्यपालः आर.एन.रविः सम्बोधयिष्यति। अस्मिन्नवसरे लोकसभाध्यक्षः ओम्-बिड़ला, राज्यसभायाः उपसभापतिः हरिवंशः, हरियाणा-राज्यस्य राज्यपालः प्रो.असीम-कुमार-घोषः तथा पश्चिमबङ्ग-विधानसभाध्यक्षः रथीन्द्र-बोसः अपि सत्रं सम्बोधयिष्यन्ति। अयं कार्यक्रमः लोकसभा-सचिवालयस्य पार्लियामेण्टरी-रिसर्च-एण्ड-ट्रेणिङ्ग-इन्स्टिट्यूट-फॉर-डेमोक्रेसीसस्य पश्चिमबङ्ग-विधानसभायाः सहयोगेन आयोज्यते।
Hindusthan Samachar / Divya Ranjan