Enter your Email Address to subscribe to our newsletters

रायपुरम्,02 जुलाईमासः (हि.स.)।
छत्तीसगढस्य समृद्धायाः सांस्कृतिकपरम्परायाः नूतनपरिचयं प्रदातुं लोकशास्त्रीयकलानां च व्यापकं मञ्चं प्रदातुं सञ्चालनालयसंस्कृतिराजभाषाविभागेन छत्तीसगढराज्ये वर्ष २०२६ २०२७ वार्षिकसांस्कृतिककार्यक्रमाणां कृते कलाकारेभ्यः सांस्कृतिकदलभ्यश्च आवेदनानि आमन्त्रितानि।
विभागेन आयोजितानाम् एतेषां प्रतिष्ठितसांस्कृतिककार्यक्रमाणां माध्यमेन प्रदेशस्य प्रतिभाशालिनः कलाकाराः स्वकलाप्रदर्शनस्य अवसरं प्राप्स्यन्ति। तेनैव लुप्यमानानां लोकपरम्पराणां संरक्षणसंवर्धनयोः अपि नूतना गतिः भविष्यति। संस्कृतिविभागः प्रतिवर्षं समग्रप्रदेशे विविधसांस्कृतिककार्यक्रमान् आयोजयति। तेषु शास्त्रीयसङ्गीतम् शास्त्रीयनृत्यम् लोकसङ्गीतम् लोकनृत्यम् नाट्यप्रस्तुतयः पारम्परिकवाद्ययन्त्रप्रस्तुतयः च समाविष्टाः भवन्ति। अस्याः परम्परायाः अन्तर्गतं वर्ष २०२६ २०२७ कृते पावसप्रसङ्गः शास्त्रीयसङ्गीतनृत्यकार्यक्रमः रंगतरंगवाद्ययन्त्रसङ्गमः रंगपरबनाट्यश्रृङ्खला लोकरंगपर्व च इत्येषु कार्यक्रमेषु कलाकाराणां चयनं भविष्यति।
विशेषतया लोकरंगपर्वस्य अन्तर्गतं छत्तीसगढस्य पारम्परिकलोककलाभिः लोकविधाभिश्च सम्बद्धानां कलाकाराणां प्राथमिकता भविष्यति। एतदर्थं भरथरी पण्डवानी ढोलामारू लोरिकचन्दा नाचा गम्मत सुआ करमा पन्थी बांसगीत देवारगीत ददरिया जसगीत संस्कारगायनम् अन्याश्च पारम्परिकलोकविधाः इत्यासु निपुणाः कलाकाराः आवेदनं दातुं शक्नुवन्ति। एतेषां कार्यक्रमाणाम् उद्देश्यं प्रदेशस्य लोकसांस्कृतिकसंपदं नूतनसंततये परिचाययितुं कलाकारेभ्यः च सशक्तं मञ्चं प्रदातुम् अस्ति।
आवेदनं कुर्वतां कलाकाराणां सांस्कृतिकदलानां च चिन्हारीपञ्जीकरणम् अनिवार्यम् अस्ति। समूहप्रस्तुतिम् इच्छन्तः कलाकाराः निर्धारितप्रारूपेण आवेदनं समर्पयितुं शक्नुवन्ति। आवेदनानि सञ्चालनालयसंस्कृतिराजभाषाविभागस्य द्वितीयतले छत्तीसगढगृहनिर्माणमण्डलव्यावसायिकपरिसरे सेक्टर २७ नवारायपुरस्थिते कार्यालये समर्पयितुं शक्यन्ते। निर्धारितविद्युत्पत्रमाध्यमेन अपि आवेदनप्रेषणस्य सुविधा प्रदत्ता अस्ति।
**संस्कृतिविभागेन आवेदनसमर्पणस्य अन्तिमतिथिः १५ जुलै २०२६ निर्धारिता। विभागेन प्रदेशस्य पात्रकलाकारान् सांस्कृतिकदलानि च निर्धारितसमयसीमायाः अन्तर्गतं आवेदनानि समर्प्य एतेषु महत्त्वपूर्णेषु सांस्कृतिककार्यक्रमेषु सहभागित्वं सुनिश्चितं कर्तुं तथा छत्तीसगढस्य गौरवशालिनीं सांस्कृतिकविरासतां राष्ट्रियस्तरे नूतनपरिचयं दातुं विनम्रतया आह्वानं कृतम्।
Hindusthan Samachar / Dheeraj Maithani